SearchBrowseAboutContactDonate
Page Preview
Page 271
Loading...
Download File
Download File
Page Text
________________ X-66Y श्रीउत्तराध्ययनसूत्रे श्रीनेमिच- न्द्रीया सुखबोधाख्या लघुवृत्तिः । ॥१२९॥ अष्टम कापिलीयमध्ययनम् । कपिलकेवलिना साधुधर्मकथनम्। व्याख्या-ये 'लक्षणं च' शुभाऽशुभसूचकं पुरुषलक्षणादि । तद्यथा-अस्थिष्वर्थाः सुखं मांसे, त्वचि भोगाः स्त्रियोऽक्षिषु। गतौ यानं स्वरे चाऽऽज्ञा, सर्व सत्त्वे प्रतिष्ठितम् ॥१॥ तथा-पद्म-वज्रा-ऽङ्कुश-च्छत्र-शङ्ख-मत्स्यादयस्तले। पाणि-पादेषु दृश्यन्ते, यस्याऽसौ श्रीपतिः पुमान् ॥२॥ उत्तुङ्गाः पृथुलास्ताम्राः, स्निग्धा दर्पणसन्निभाः। नखा भवन्ति धन्यानां,धनभोगसुखप्रदाः॥३॥ सितैः श्रमणता ज्ञेया, रूक्षपुष्पितकैः पुनः।जायते किल दुःशीलो, नखैर्लोकेऽत्र मानवः ॥४॥ शुद्धाः समाः शिखरिणो, दन्ताः स्निग्धघनाः शुभाः। विपरीताः पुनर्जेया, नराणां दुःखहेतवः ॥५॥ द्वात्रिंशद्दशनो राजा, भोगी स्यादेकहीनकः । त्रिंशता मध्यमो ज्ञेयस्ततोऽधस्तान्न सुन्दरः॥६॥ स्तोकदन्ताऽतिदन्ता ये, श्यामदन्ताश्च ये नराः । मूषकैः समदन्ताश्च, ते पापाः परिकीर्चिताः ॥७॥ अङ्गुष्ठयवैराढ्याः, सुतवन्तोऽङ्गुष्ठमूलजैश्च यवैः । ऊर्द्धाकारा रेखा, पाणितले भवति धनहेतुः ॥८॥ वामावर्तो भवेद्यस्य, वामायां दिशि मस्तके । निर्लक्षणः क्षुधाक्षामो, भिक्षामद्यात् स रूक्षिकाम् ॥९॥ दक्षिणो दक्षिणे भागे, यस्याऽऽवत्र्तोऽस्ति मस्तके । तस्य नित्यं प्रजायेत, कमला करवर्तिनी॥१०॥ यदि स्यादक्षिणे वामो, दक्षिणो वामपार्श्वके । पश्चात्काले ततस्तस्य, भोगा नास्त्यत्र संशयः॥११॥ उरोमुखललाटानि, पृथूनि सुखभागिनाम् । गम्भीराणि पुनस्त्रीणि, नाभिः सत्त्वं स्वरस्तथा ॥१२॥ केश-दन्त-नखाः सूक्ष्मा, भवन्ति सुखहेतवः । कण्ठः पृष्ठं तथा जो, इस्खं लिङ्गश्च पूजितम् ॥१३॥ रक्ता जिह्वा भवेद्धन्या, पाणिपादतलानि च । पृथुलाः पाणिपादाश्च, धन्यानां दीर्घजीविनाम् ॥१४॥ स्निग्धदन्तः शुभाऽऽहारः, सुभगः स्निग्धलोचनः । नरोऽतिहस्वदीर्घाश्च, स्थूलाः कृष्णाश्च निन्दिताः॥१५॥ पञ्चभिः शतमुद्दिष्टं, चतुर्भिर्नवतिस्तथा । त्रिभिः षष्टिः समुद्दिष्टा, लेखा? लवर्तिभिः॥१६॥ चत्वारिंशत्पुनः प्रोक्तं, वर्षाणि नरजीवितम् । ताभ्यां द्वाभ्यां तथैकेन, त्रिंशद्वर्षाणि जायते ॥१७॥ कुशीला श्यामलोलाक्षी, रोमSil जङ्घा च भर्तृहा । महिलोन्नतोत्तरोष्ठी, नित्यञ्च कलहप्रिया ॥१८॥ इत्यादि । 'स्वप्नं च' शुभाऽशुभफलसूचकम् । तद्यथा FOXOXOXOXOXOXOXOXOXOXOX ॥१२९॥
SR No.600356
Book TitleUttaradhyayanani
Original Sutra AuthorN/A
AuthorNemichandracharya
PublisherPushpachandra Kshemchandra Balapurwala
Publication Year1937
Total Pages798
LanguagePrakrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy