________________
श्रीउत्तराध्ययनसूत्रे श्रीनेमिच
न्द्रीया सुखबोधा
ख्या लघु
वृत्तिः ।
॥१२८॥
वयस कायसा चैव” त्ति आर्षत्वात् मनसा वचसा कायेन, चैवशब्दः समुच्चये । इदमत्र तात्पर्यम् – “सवे वि दुक्खभीरू, स वि सुहाभिलासिणो सत्ता । सधे वि जीवणपिया, सवे मरणाङ बीहंति ॥ १ ॥ वरमन्नभोगदाणं, धणधन्नहिरन्नरजदाणं च । न कुणइ तं मणहरिसं, जायइ जो अभयदानाओ ॥ २ ॥ एहु धम्मपरमत्थु कहिज्जइ, जेण पीडनं परह न किज्जइ । जो परपीड करइ निश्चिंतड, सो भवि भमइ दुक्खसंतत्तड ॥ ३ ॥” इति मत्वा न कस्यापि जीवस्य हिंसां कुर्यादिति सूत्रार्थः ॥ १० ॥ उक्ता मूलगुणाः सम्प्रत्युत्तरगुणा वाच्याः । तेष्वपि एषणासमितिः प्रधानेति तामाहसुद्धेसणा उ णच्चा णं, तत्थ ठविज्ज भिक्खू अप्पाणं ।
जायाए घासमेसेज्जा, रसगिद्धे ण सिया भिक्खाए ॥ ११ ॥
व्याख्या - शुद्धाः - शुद्धिमत्यो दोषरहिता इत्यर्थः ताश्च ता एषणाञ्च - उद्गमैषणाद्याः शुद्धेषणास्ताः 'ज्ञात्वा' अवबुध्य 'तत्र' तासु ' स्थापयेत्' निवेशयेत् 'भिक्षुः' यतिः आत्मानम् । किमुक्तं भवति ? — अनेषणीयपरिहारेण शुद्धमेव गृह्णीयात्, तदपि किमर्थम् ? इत्याह – “ जायाए" त्ति 'यात्रायै' संयमनिर्वाहणनिमित्तं “घासं" ति प्रासम् 'एषयेत्' गवेषयेत् । उक्तं हि – “जैह सगडक्खोवंगो, कीरइ भरवहणकारणा नवरं । तह गुणभरवहणत्थं, आहारो बंभयारीणं ॥ १ ॥” इति । एषणाशुद्धमप्यादाय कथं भोक्तव्यम् ? इति प्रासैषणामाह – रसेषु - स्निग्धमधुरादिषु गृद्धः-गृद्धिमान् रसगृद्धः 'न स्यात् '
१ "सर्वेऽपि दुःखभीरवः, सर्वेऽपि सुखाभिलाषिणः सच्वाः। सर्वेऽपि जीवनप्रियाः, सर्वे मरणाद् बिभ्यति ॥ १ ॥ वरमञ्जभोगदानं धनधान्यहिरण्यराज्यदानं च । न करोति तं मनोहर्षं, जायते योऽभयदानात् ॥ २ ॥ एष धर्मपरमार्थः कथ्यते येन पीडा खलु परस्य न क्रियते । यः परपीडां करोति निश्चिन्तः, स भवे भ्रमति दुःखसन्तप्तः ॥ ३॥
२ "यथा शकटाक्षोपाङ्गः, क्रियते भारवहनकारणात् नवरम् । तथा गुणभारवहनार्थमाहारो ब्रह्मचारिणाम् ॥ १ ॥”
अष्टमं कापिलीय
मध्ययनम् ।
कपिलकेव
लिना साधुधर्मकथनम् ।
॥ १२८ ॥