SearchBrowseAboutContactDonate
Page Preview
Page 256
Loading...
Download File
Download File
Page Text
________________ जेसिं तु विउला सिक्खा, मूलियं ते अइच्छिया। सीलवंता सविसेसा, अदीणा जंति देवयं ॥ २१ ॥ व्याख्या- 'येषां तु' येषां पुनः 'विपुला' निःशङ्कितत्वा दिदर्शनाचारादिविषयत्वेन विस्तीर्णा 'शिक्षा' ग्रहणाssसेव| नात्मिका अस्तीति गम्यते, 'मौलिकं' मूलधनभूतं मानुषत्वं ते "अइच्छिय" त्ति 'अतिक्रम्य' उल्लङ्घय ' शीलवन्तः ' | सदाचारवन्तः अविरतसम्यग्दृष्ट्यपेक्षया, महाव्रताऽणुत्रतादिमन्तश्च विरतिमदपेक्षया, तथा सह विशेषेण- उत्तरोत्तरगुण| प्रतिपत्तिलक्षणेन वर्त्तन्त इति सविशेषाः, अत एव 'अदीनाः ' 'कथं वयममुत्र भविष्यामः ?' इति वैकुव्यरहिता यान्ति देवस्य भावो देवता सैव दैवतं तत्, साम्प्रतं विशिष्टसंहननाभावतो मुक्तिगतेरत्र व्यवच्छिन्नत्वाद् देवत्वमेव लाभ उक्तः । यत उक्तम् - "मेण परमोहि पुलाए, आहारग खवग उवसमे कप्पे । संजमतिय केवलि सिज्झणा य जंबुम्मि वोच्छिन्ना ॥ १॥" इति सूत्रार्थः ॥ २१ ॥ प्रस्तुतमेवार्थं निगमयन्नुपदेशमाह— एवमद्दीणवं भिक्खुं, अगारिं च विजाणिया । कहं नु जिच्चमेलिक्खं, जिचमाणो ण संविदे ॥ २२ ॥ व्याख्या- 'एवम् ' अमुना प्रकारेण लाभान्वितम् 'अदैन्यवन्तं' दैन्यरहितं 'भिक्षु' यतिम् 'अगारिणं च ' गृहस्थं 'विज्ञाय ' विशेषेण - तथाविधशिक्षावशाद् देवमनुजगतिगामित्वलक्षणेन ज्ञात्वा, 'कथं' केन प्रकारेण न कथञ्चिदित्यर्थः, 'नु' इति वितर्के, “जिवं" ति सूत्रत्वात् 'जेयं' जेतव्यम् इन्द्रियादिभिः, “एलिक्खं" ति 'ईदृक्षं' देवत्वमनुजत्वलक्षणं 'जीयमानः ' हार्यमाण: "न संविदे" त्ति प्राकृतत्वात् 'न संवित्ते' न जानीते ? अपि तु संवित्त एव, संविदानश्च यथा न जीयेत तथा यतेत इत्यभिप्राय इति सूत्रार्थः ॥ २२ ॥ समुद्रदृष्टान्तमाह जहा कुसग्गे उदगं, समुद्देण समं मिणे । एवं माणुस्सगा कामा, देवकामाण अंतिए ॥ २३ ॥ १ " मनः परमावधिः पुलाकः, आहारकः क्षपकोपशमः कल्पः । संगमत्रिकं केवली सेधना च जम्बो व्युच्छिन्नाः ॥ १ ॥” XCXCXCXXXCX समुद्रदृष्टान्तः ।
SR No.600356
Book TitleUttaradhyayanani
Original Sutra AuthorN/A
AuthorNemichandracharya
PublisherPushpachandra Kshemchandra Balapurwala
Publication Year1937
Total Pages798
LanguagePrakrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy