________________
श्रीउत्तराध्ययनसूत्रे श्रीनेमिच
सप्तमं औरभ्रीयमध्ययनम् ।
न्द्रीया
व्यवहार दृष्टान्तः।
सुखबोधाख्या लघुवृत्तिः । ॥११९॥
ऊने वर्षशताऽऽयुषि, प्रभूते ह्यायुषि प्रमादेनैकदा हारितान्यपि पुनर्जीयेरन् , अस्मिंस्तु सङ्क्षिप्तायुषि एकदा हारितानि हारितान्येव, भगवतश्च वीरस्य तीर्थे प्रायो न्यूनवर्षशतायुष एव जन्तव इत्यर्थमुपन्यासः । अयं चात्र भावार्थ:-अल्पं मनुष्याणामायुः विषयाश्चेति काकिण्याम्रफलोपमाः देवायुर्देवकामाश्चातिप्रभूततया कार्षापणसहस्रराज्यतुल्याः; ततो यथा द्रमको राजा च काकिण्याम्रफलकृते कार्षापणसहस्रं राज्यं च हारितवान् , एवमेतेऽपि दुर्मेधसोऽल्पतरमनुष्यायुःकामार्थे प्रभूतान् देवायुःकामान् हारयन्तीति सूत्रार्थः ॥ १३ ॥ सम्प्रति व्यवहारोदाहरणमाहजहा य तिन्नि वणिया, मूलं घेत्तूण निग्गया। एगोऽस्थ लहइ लाहं, एगो मूलेण आगओ॥१४॥
व्याख्या-'यथेति प्राग्वत्, प्रतिपादितदृष्टान्तापेक्षया 'चः' समुच्चये, त्रयः 'चणिजः' प्रतीताः 'मूलं' राशि नीवीमिति यावत्, गृहीत्वा 'निर्गताः' स्वस्थानात् स्थानान्तरं प्रति प्रस्थिताः प्राप्ताश्च समीहितस्थानम् । तत्र च गतानाम् 'एकः' वणिकलाकुशलः 'अत्र' एतेषु मध्ये 'लभते' प्राप्नोति 'लाभ' विशिष्टद्रव्योपचयलक्षणम् , 'एकः' तेष्वेवान्यतरः यस्तथा नातिनिपुणो नाप्यत्यन्तानिपुणः सः "मूलेण" त्ति मूलधनेन यावद् गृहाद् नीतं तावतैवोपलक्षितः 'आगतः'। स्वस्थानं प्राप्त इति सूत्रार्थः ॥ १४ ॥ तथाएगो मूलं पि हारित्ता, आगओ तत्थ वाणिओ । ववहारे उवमा एसा, एवं धम्मे वियाणह ॥१५॥
व्याख्या-एकः' अन्यतरः प्रमादपरो द्यूतमद्यादिषु अत्यन्तमासक्तचेताः 'मूलमपि' उक्तरूपं हारयित्वा' नाशयित्वा S'आगतः' प्राप्तः स्वस्थानमित्युपस्कारः । एवं सर्वत्रोदाहरणसूचायां सोपस्कारता द्रष्टव्या । 'तत्र' तेषु मध्ये वणिगेव वाणिजः । अत्र च सम्प्रदाय:
जहा एगस्स इन्भवाणियगस्स तिन्नि पुत्ता । तेण तेर्सि बुद्धि-ववसाय-पुन-पउरिसपरिक्खणत्थं सहस्सं सहस्सं
॥११९॥