________________
शिष्योप
देशः।
तओ काले अभिप्पए, सड्डी तालीसमंतिए । विणएज लोमहरिसं, भेदं देहस्स कंखए ॥३१॥
व्याख्या-ततः' कषायोपशमानन्तरं 'काले' मरणकाले 'अभिप्रेते' अभिरुचिते, कदा च मरणमभिप्रेतम् ? यदा योगा नोत्सर्पन्ति “सडि" त्ति श्रद्धावान् 'तादृशं' भयोत्थं 'अन्तिके' समीपे गुरूणामिति गम्यते, 'विनयेत्' अपनयेत् | 'रोमहर्ष' रोमाञ्चं 'हा! मम मरणं भविष्यति' इत्यभिप्रायजं, किश्च 'भेदं' विनाशं देहस्य काङ्केत् , त्यक्तपरिकर्मतया न तु मरणाऽऽशंसया, वर्जनीयत्वादस्या इति सूत्रार्थः ॥ ३१ ॥ निगमयितुमाहअह कालम्मि संपत्ते, आघायाय समुस्सयं। सकाममरणं मरइ, तिहमण्णयरं मुणी॥३२॥त्ति बेमि॥ ___ व्याख्या-'अथ' मरणाभिप्रायानन्तरं 'काले' मरणकाले 'सम्प्राप्ते' “निफाइया य सीसा, सउणी जह अंडयं पय
तेणं । बारससंवच्छरियं, अह संलेहं ततो करइ ॥१॥" इत्यादिना क्रमेण समायाते, "आघायाय" त्ति 'आघाताय' |संलेखनादिक्रमेण विनाशाय, सुव्यत्ययात् 'समुच्छ्रयस्य' अन्तः कार्मणशरीरस्य बहिरौदारिकस्य, किं कुर्यात् ? इत्याहसकामस्य-साभिलाषस्य मरणं सकाममरणं तेन म्रियते, 'त्रयाणां' भक्तपरिज्ञेङ्गिनीपादपोपगमनानामन्यतरेण, सूत्रत्वात् सर्वत्र विभक्तिव्यत्ययः, 'मुनिः' तपस्वी इति सूत्रार्थः ॥ ३२ ॥ इतिः' परिसमाप्तौ, ब्रवीमीति पूर्ववत् ।।
काल
अथ'
O-XOXOXOXOXOXOXOXOXOLKO-KOKE
अहसलेह
, सुबळ्या ततो करत
समुपद त्रयाणा
OXOXOXOXOXOXOXXXXXatok
सामिलाप
सर्वत्र
इति श्रीनेमिचन्द्रसूरिविनिर्मितायां सुखबोधायां उत्तराध्ययनसूत्रलघु
टीकायां अकाममरणीयाख्यं पञ्चममध्ययनं समाप्तम् ॥
१ "निष्पादिताश्च शिष्याः, शकुनिर्यथाऽण्डक प्रयत्नेन । द्वादशसांवत्सरिकमथ, संलेखं ततः करोति ॥३॥"