SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ सकाममरणखरूपम्। OXOXOXOXOXOXOXOXOXOXXX | अनाघातम् । केषां पुनरिदम् ? उच्यते-'संयतानां' सम्यक्पापोपरतानां चारित्रिणामित्यर्थः," वुसीमउ" त्ति आर्षत्वाद् | 'वश्यवतां' वश्यानि-आयत्तानि प्रक्रमाद् इन्द्रियाणि विद्यन्ते येषां ते वश्यवन्तः तेषाम्, एतच्चार्थात् पण्डितमरणमेव । ततोऽयमर्थः-यथैतत् संयतानां वश्यवतां विप्रसन्नमनाघातं च भवति तथा नाऽन्यप्राणिनाम् । उक्तञ्च-काले सुपत्तदाणं, | सम्मत्तविसुद्धी बोहिलाभं च । अंते समाहिमरणं, अभवजीवा न पावंति । १॥ विशिष्टयोग्यतावतामेव तत्प्राप्तिरिति सूत्रार्थः ॥ १८ ॥ तथा चाहन इमंसवेसु भिक्खूसु,ण इमं सवेसुगारिसु।नाणासीला य गारत्था, विसमसीला य भिक्खुणो॥ | व्याख्या-'न' नैव 'इदं' पण्डितमरणं सर्वेषु 'भिक्षुषु' परदत्तोपजीविषु व्रतिष्वित्यर्थः; नेदं सर्वेषु 'अगारिषु' | गृहिषु, सर्वचारित्रिणामेव तत्सम्भवात् , तथात्वे च तेषामपि तत्त्वतो यतित्वात् । यथा चैतदेवं तथोपपत्तित आह'नानाशीला:' अनेकविधव्रता अगारस्थाः, तेषां हि देशकरूपं शीलम्, देशरूपस्य तस्यानेकधाऽभिधानात् । 'विषमशीलाच | विसदृशशीलाश्च भिक्षवः, नहि सर्वेऽप्यनिदानिनोऽविकलचारित्रिणो वा तत्कालं म्रियन्ते जिनमतप्रतिपन्ना अपि, तीर्थान्त|रीयास्तु दूरोत्सारिता एव । तेषु हि गृहिणस्तावद् अत्यन्तनानाशीला एव, यतः केचित् 'गृहाश्रमप्रतिपालनमेव महाव्रतमिति प्रतिपन्नाः, "गृहाश्रमपरो धर्मो, न भूतो न भविष्यति । पालयन्ति नराः शूराः, क्लीबाः पाखण्डमाश्रिताः ॥१॥” इति वचनात् । अन्ये तु 'सप्त शिक्षापदशतानि गृहिणां व्रतम्' इत्याद्यनेकधैव ब्रुवते । भिक्षवोऽप्यत्यन्तविषमशीला एव, यतस्तेषु X केषाञ्चित् पञ्चयमनियमात्मकं व्रतमिति दर्शनम् , अपरेषां कन्दमूलफलाशितैव इति विसदृशशीलता । न च तेषु कचिद| विकलचारित्रसम्भव इति सर्वत्र पण्डितमरणाभाव इति सूत्रार्थः ॥ १९॥ विषमशीलतामेव भिक्षूणां समर्थयितुमाह १ "काले सुपात्रदान, सम्यक्त्वविशुद्धिबोंधिलाभश्च । अन्ते समाधिमरणं, अभव्यजीवा न प्रामुवन्ति ॥ १॥"
SR No.600356
Book TitleUttaradhyayanani
Original Sutra AuthorN/A
AuthorNemichandracharya
PublisherPushpachandra Kshemchandra Balapurwala
Publication Year1937
Total Pages798
LanguagePrakrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy