________________
श्रीउत्तराध्ययनसूत्रे श्रीनैमिचन्द्रीया सुखबोधाख्या लघुवृत्तिः ।
पञ्चमं | अकाममरणीयाख्यमध्ययनम् ।
अकाममरणखरूपम्।
॥१०२॥
क्रियया अभिनिर्वर्त्तयति, शक्तावशक्तावपि क्रूरतया तन्दुलमत्स्यवद् मनसा कृत्वा च तानि प्रक्रमाद् अकाम एव म्रियते | इति सूत्रार्थः ॥ ४ ॥ इदमेव ग्रहणवाक्यं प्रपञ्चयितुमाह
जे गिद्धे कामभोगेसु, एगे कूडाय गच्छइ । ण मे दिखे परे लोए, चक्खुदिट्ठा इमा रई॥५॥ व्याख्या-'यः' इति अनिर्दिष्टस्वरूपः गृद्धः 'कामभोगेषु' कामौ च-शब्दरूपाख्यौ भोगाश्च-स्पर्शरसगन्धाख्यास्तेषु, 'एकः' कश्चिदिति क्रूरकर्मा सः 'कूटाय गच्छति' कूट-द्रव्यतो मृगादिबन्धनं भावतो मिथ्याभाषणादि तस्मै गच्छतिअनेकार्थत्वात् प्रवर्तते । स हि मांसादिलोलुपतया मृगादिबन्धनान्यारभते, मिथ्याभाषणादीनि वा सेवते, प्रेरितश्च कैश्चिद् वदति-'न मे' इति न मया 'दृष्टः' अवलोकितः 'परलोकः' भूतभाविजन्मात्मकः । कदाचिद्विषयरतिरप्येवंविधैव स्याद् अत आह-(ग्रंथ ४०००) 'चक्षुईष्टा' चक्षुषा दृष्टा 'इयम्' एषा 'रतिः' कामासेवनजनिता चित्तप्रहत्तिः । तस्यायमाशयः-कथं दृष्टपरित्यागतोऽदृष्टपरिकल्पनयाऽऽत्मानं विप्रलम्भेयम् ? इति सूत्रार्थः ॥५॥
पुनस्तदाशयमेव व्यञ्जयितुमाह, हत्थागया इमेकामा,कालिया जे अणागया।कोजाण परेलोए?, अत्थि वा नत्थि वा पुणो॥६॥
व्याख्या-'हस्तागताः' हस्तप्राप्ताः स्वाधीनतया 'इमे' प्रत्यक्षोपलभ्यमानाः 'कामाः' शब्दादयः। 'कालिकाः' अनि|श्चितकालान्तरप्राप्तयः 'ये' 'अनागताः' भाविजन्मसम्बन्धिनः । कथं पुनरमी अनिश्चितप्राप्तयः ? इत्याह-पुनःशब्दस्य व्यवहितसम्बन्धात् कः पुनर्जानाति ? नैव कश्चिद् , यथा-परलोकोऽस्ति नास्ति वा । अयं चास्याऽऽशयः-सन्दिग्धे हि परलोके क इव हस्तगतान् कामान् अपहाय कालिककामार्थं यतेतेति सूत्रार्थः ॥ ६॥ अन्यस्तु कथश्चिदुत्पादितपरलोकप्रत्ययोऽपि कामान् परिहमशक्नुवन्निदमाह
॥१०२॥