SearchBrowseAboutContactDonate
Page Preview
Page 148
Loading...
Download File
Download File
Page Text
________________ क्षत्रियग्रहणाद् उत्तमजातय: चाण्डालग्रहणात् नीचजातयो बोक्कसग्रहणात् सङ्कीर्णजातय उपलक्षिताः । ततः 'कीटः ' प्रतीतः 'पतङ्गः' शलभः 'चः' समुच्चये । ततः कुन्थुः पिपीलिका च । चकारस्य लुप्तत्वाद् भवतीति योज्यम् । अशेषतिर्यग्भेदोपलक्षणमेतदिति सूत्रार्थः ॥ ४ ॥ आह- किमित्थं पर्यटन्तस्ते निर्विद्यन्ते न वा ? इत्याह--- CXCXXXCXXXCXCXCXX एवमावजोणीसुं, पाणिणो कम्मकिब्बिसा । न निविज्जंति संसारे, सङ्घट्टेसु व स्वप्तिया ॥ ५ ॥ कम्मसंगेहि सम्मूढा, दुक्खिया बहुवेयणा । अमाणुसासु जोणीसु, विणिहम्मंति पाणिणो ॥ ६ ॥ व्याख्या--'एवम्' अमुना न्यायेन आवर्त्तः- परिवर्तः तत्प्रधाना योनयः- चतुरशीतिलक्षप्रमाणानि जीवोत्पत्तिस्था| नानि आवर्त्तयोनयस्तासु 'प्राणिनः' जन्तवः “कम्मकिव्विस" त्ति प्राकृतत्वात् किल्बिषकर्माणः - अधमकर्माणः 'न निर्वि - | द्यन्ते' कद्रापतन्मुक्तिः इति नोद्विजन्ते । कता आवर्तमयोनयः ? संसारे । केष्विव के ?, सर्वे च ते अर्थाश्व - धनकनकादयः तेष्विव 'क्षत्रियाः' राजानः । किमुक्तं भवति ? - यथा मनोज्ञान् शब्दादीन् भुञ्जानानां तेषां तर्षो बर्द्धते, एवं तासु तासु योनिषु पुनः पुनरुत्पत्तिमनुभवतामपि भवाभिनन्दिनाम् । कथमन्यथा न तप्रतिघातार्थमुद्यच्छेयुः ? इति भावः । अनिर्वि द्यमानाश्च 'कर्मस:' ज्ञानावरणीयादिसम्बन्धैः 'सम्मूढाः ' भृशं वैचित्यमुपगताः 'दुःखिताः' असातयुक्ताः, कदाचित् तन्मानसमेव स्याद् अत आह— 'बहुवेदनाः' प्रचुरशरीरव्यथाः । 'अमानुषीषु' नरकतिर्यगाऽऽभियोग्यादिदेवदुर्गतिसम्बन्धिनीषु योनिषु 'विनिहन्यन्ते' विशेषेण निपात्यन्ते अर्थात् कर्ममिः । कोऽर्थः न तव उत्तारं लभन्ते प्राणिनः । तदनेन सत्यप्यावर्ते निर्वेदाभावाद् दुःखव्याकुलनरकादिगत्यनुत्तरणेन जन्तवो मनुजत्वं न लभन्त इत्युक्तम् । इति सूत्रद्वयार्थः ॥ ५ ॥ ६ ॥ कथं तर्हि तदवाप्तिः ? इत्याह क्रम्माणं तु पहाणाए, आणुपुडी कयाइ उ । जीवा सोहिमणुप्पत्ता, आयणंति मणुस्सयं ॥ ७ ॥
SR No.600356
Book TitleUttaradhyayanani
Original Sutra AuthorN/A
AuthorNemichandracharya
PublisherPushpachandra Kshemchandra Balapurwala
Publication Year1937
Total Pages798
LanguagePrakrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy