________________
निरट्ठगम्मि विरओ, मेहुणाओ सुसंवुडो । जो सक्खं णाभिजाणामि, धम्मं कल्लाण पावगं ॥४२॥
“निरट्ठगम्मि” त्ति अर्थः- प्रयोजनं तद्भावो निरर्थं तदेव निरर्थकं तस्मिन् सति 'विरतः' निवृत्तः 'मैथुनात्' अब्रह्मणः, हिंसाद्याश्रवान्तरविरतावपि अस्यैवोपादानं गृद्धिहेतुतया दुस्त्यजत्वात्, उक्तं हि - "अक्खाणऽसणी कम्माण मोहणी तह वयाण बंभं च । गुत्तीण य मणगुत्ती, चउरो दुक्खेण जिप्पंति ॥ १ ॥” 'सुसंवृतः' इन्द्रियनोइन्द्रियसंवरणेन यः 'साक्षात् ' परिस्फुटं नाऽभिजानामि 'धर्म' वस्तुस्वभावं' कल्याणं' शुभम्, बिन्दुर्लुप्तोऽत्र द्रष्टव्यः 'पापकं च तद्विपरीतम्, चकारस्य गम्यमानत्वात् । अयमाशयः -- यदि विरतौ कश्चिदर्थः सिद्धयेन्नैवं ममाऽज्ञानं भवेत्, कदाचित् सामान्यचर्ययैव न फलाऽवाप्तिः, अत आह—
तवोवहाणमादाय, पडिमं पडिवज्जओ । एवं पि विहरओ मे, छउमं न नियहई ॥ ४३ ॥
व्याख्या - तपः - भद्रमहाभद्रादि उपधानम् - आगमोपचाररूपमाचाम्लादि 'आदाय' चरित्वा, 'प्रतिमां' मासिक्यादिरूपां 'प्रतिपद्यमानस्य' अभ्युपगच्छतः, 'एवमपि' विशेषचर्यया 'विहरतः ' निःप्रतिबन्धत्वेनाऽनियतं विचरतः मम 'छा' ज्ञानावरणादिकर्म्म 'न निवर्त्तते' नाऽपैतीति न चिन्तयेद् इत्युत्तरेण संबन्ध इति सूत्रद्वयार्थः ॥ ४२-४३ ॥ इत्थं ज्ञानाभावे न विकुवता कार्या, ज्ञानभावे च नोत्सेको विधेय इत्यप्युपलक्षणत्वादवसेयम् । यतः - "ज्ञानं मददर्पहरं, माद्यति यस्तेन तस्य को वैद्यः ? । अमृतं यस्य विषायति तस्य चिकित्सा कथं क्रियते ? ॥ १ ॥ "
उदाहरणम् - गंगाकूले दो भायरो पवइया । तत्थेगो बहुस्सुओ, एगो अप्पसुओ । जो बहुस्सुओ सो आयरिओ । सो सीसेहिं सुत्तत्थाणं निमित्तमुवसप्पतेहिं दिवसओ विस्सामं न लभइ । रत्तिं पि परिपुच्छणाईहिं सुविडं न लहइ ।
१ "अक्षाणामशनी कर्म्मणां मोहनी तथा व्रतानां ब्रह्म च । गुप्तीनां च मनोगुप्तिश्चत्वारो दुःखेन जीयन्ते ॥ १॥"