________________
परः पृच्छति-तवायं केन संबन्धेन संबद्ध इति, साधुराह, कत्थइ कहिंचि जाता, एवमादि, ततः पर आह-साहल्लयत्ति, सफलता धर्मस्य, यददृष्टेऽपि परमबन्धाविव क्रिया क्रियते, 'पायडधुवणे त्ति प्रकट ग्लानस्योपधेर्वा क्षालनं कर्त्तव्यं, प्रकटक्षालने च लोक एवमाह, शुचिसमाचारा एते श्रमणा इति, अथासौ ग्लानोऽतिविह्वलः स्याद्-अतीव दुःखेन करालितः
स्यात्ततः 'समाहित्ति यथा प्रार्थितं भोजनादि दातव्यं येन स्वस्थचित्तो भवति, स्वस्थीभूतश्चाभिधीयते-यथाकालं कुरुहाब्वेति । अथासौ सहः-समर्थस्ततश्चाश्वास्यते-न भेतव्यं अहं त्वां प्रतिजागरामीति । ततश्च
सयमेव दिट्ठपाढी करेइ पुच्छइ अयाणओ वेजं । दीवण दवाइंमि अ उवएसो जाव लंभो उ ॥७४॥ हा यद्यसौ साधुः 'दृष्टपाठी' दृष्टः-उपलब्धश्चरकसुश्रुतादिर्येन स दृष्टपाठी, अथवा 'दिहत्ति वैद्यवदृष्टक्रियः क्रियाकुशलः,
पाठीति सकलं वाहडादि पठति स एवंविधः स्वयमेव क्रियां करोति । अथासौ दृष्टपाठी न भवति ततः पृच्छति अज्ञः सन् वैद्यं, 'दीवण'त्ति वैद्यशालां गतः प्रकाशयति, यदुताहं कारणेनैककः संजातः, अतो निमित्तं न ग्राह्यं, 'दवादिमि यत्ति द्रव्यादिचतुष्टयोपदेशे सति तत्र द्रव्यतः प्रासुकमप्रासुकं वा क्षेत्रतः क्रीतकडा अक्रीतकडा वा वसही, कालतः प्रथमपौ|रुष्यामुपदिष्टं तस्यां च यदा प्रासुकं न लभ्यते तदाऽप्रासुकमपि क्रियते, भावतः समाधिः कर्त्तव्या प्रासुकाप्रासुकैरिति ॥ 11
कारणिअ हट्टपेसे गमणणुलोमेण तेण सह गच्छे। निक्कारणि खरंटण बिइज्ज संघाडए गमणं ॥७९॥ | एवमसौ ग्लानो यदि कारणिको भवति, ततः 'हहत्ति दृढीभूतः 'पेसेत्ति प्रेषणीयः, अथ ग्लानस्याप्यनुकूलमेव गन्तव्यं । भवति ततः 'गमणणुलोमेण' हेतुना तेन ग्लानेन सह गच्छेत् , उक्तः साम्भोगिकः ग्लान एकः कारणिकः, असाम्भोगिकः|