________________
श्री ओघनिर्युक्तिः द्रोणीया वृत्तिः
॥ २ ॥
पूर्वाणि विद्यन्ते येषां ते चतुर्दशपूर्विणस्तांश्च वन्दित्वेति सर्वत्र क्रिया मीलनीया, किं तानेव १, नेत्याह- 'तथैव दशपूर्वि - णश्च' 'तथे 'ति आगमोक्तेन प्रकारेण एवेति क्रमनियमप्रतिपादनार्थः अनेनैव क्रमेण दशपूर्विण इति, दश पूर्वाणि विद्यन्ते येषां ते दशपूर्विणः, न केवलं तानेव, 'एकादशाङ्गसूत्रार्थधारकान्' एकादश च तान्यङ्गानि च एकादशाङ्गानि एकादशाङ्गानां सूत्रार्थी एकादशाङ्गसूत्रार्थौ तौ धारयन्ति ये तान् एकादशाङ्गसूत्रार्थधारकान् । 'सर्वसाधूंश्च' इति सर्व साधयन्तीति सर्वसाधवः अथवा सर्वे च ते साधवश्च सर्वसाधवः तान् सर्वसाधूंश्च वन्दित्वा, चशब्दः समुच्चये, अथवाऽनुक्तसमुच्चये, यच्च समुच्चितं तत्प्रतिपादयिष्यामः । पदविग्रहस्तु यानि समासभाञ्जि पदानि तेषां प्रतिपादितः । अधुना चालनाया अवसरः सा प्रतिपाद्यते, एवं व्याख्याते सत्याह परः - सर्वमेवेदं गाथासूत्रं न घटते, कथम् ?, इह 'ओघनिर्युक्तिं वक्ष्ये' इति प्रतिज्ञा, सा च प्रथममेव नमस्कारसूत्रे न संपादिता, यदुत नमस्कारोऽपि संक्षेपेणैवाभिधातव्यः, न चासौ संक्षेपेण प्रतिपादितः, अपि त्वर्हन्नमस्कार एव केवलः संक्षेपनमस्कारो भवति, स एव कर्तव्यो न चतुर्दशपूर्वधरादिनमस्कारः, अथ क्रियते, एवं तर्हि एकैकस्या व्यक्तेर्नमस्कारः कर्तव्यः, किं दशपूर्व्यादिनमस्कारेणेति, चतुर्दशपूर्विनमस्कारेणैव शेषाणां नमस्कारो भवि - व्यतीति, अथ भेदेन क्रियते एवं तर्हि त्रयोदशपूर्वधरादीनामेकैकपूर्वहान्या तावत्कर्तव्यो यावत्पूर्वैकदेशधराणामिति, अत्रोच्यते, यदित्थं चोद्यं क्रियते तदविज्ञायैव परमार्थ, कथम् ?, यदुक्तं तावत् संक्षेपग्रन्थोऽयं तदत्र नमस्कारोऽपि संक्षेपेण कर्तव्य इति, अत्र तावत्प्रतिविधीयते येनैव संक्षेपग्रन्थोऽयं तेनैव लक्षणेनेत्थं नमस्कारः कृतः, तथाहि - सामान्येनार्हतां नमस्कारोऽभिहितः न विशेषेण एकैकस्य तीर्थकरस्य, तथा भगवतामुपकारित्वान्नमस्कारः क्रियते, येऽप्यमी चतुर्दशपूर्व
मङ्गलादि नि. १-२
॥ २ ॥