________________
ROSAS ARARAQUARASAASAASA
कृतेत्यर्थः, एवं पदविभागसामाचारी दशधासामाचार्यपीति । तत्रौघसामाचारी तावदभिधीयते, अस्याश्च महार्थत्वात् कथञ्चिच्छास्त्रान्तरत्वाच्चादावेवाचार्यो मङ्गालार्थ संबन्धादित्रयप्रतिपादनार्थं च गाथाद्वयमाह
अरहते वंदित्ता चउदसपुची तहेव दसपुवी । एक्कारसंगसुत्तत्थधारए सवसाहू य ॥१॥
ओहेण उ निजुत्तिं वुच्छं चरणकरणाणुओगाओ। अप्पक्खरं महत्थं अणुग्गहत्थं सुविहियाणं॥२॥जुयलं। अत्राह-किमर्थ शास्त्रारम्भे मङ्गलं क्रियते ? इति, उच्यते, विघ्नविनायकोपशमनार्थ, तथा चोक्तम्-“श्रेयांसि बहुविनानि, भवन्ति” इत्यादि, श्रेयोभूता चेयमतो मङ्गलं कर्तव्यं, तच्च नामादिभेदेन चतुर्धा, तत्र नामस्थापने सुज्ञाने, द्रव्यमङ्गलं दध्यादि, तच्चानेकान्तिकमनात्यन्तिकं च, भावमङ्गलमहदादिनमस्कारः, तच्चैकान्तिकमात्यन्तिकं च । तदनेन संबन्धेनायातस्यास्य व्याख्या क्रियते-सा च लक्षणान्विता नालक्षणेति, लक्षणं च संहितादि, “संहिता च पदं चैव” इत्यादि, तत्रास्खलितपदोच्चारणं संहिता, सा चेयम्-'अरहते वंदित्ता' इत्यादिका । अधुना पदानि प्रतन्यन्ते-अर्हतो वन्दित्वा चतुर्दशपूर्विणः तथैव दशपूर्विणः । एकादशाङ्गसूत्रार्थधारकान् सर्वसाधूंश्च । एतावन्ति पदान्याद्यगाथासूत्रे, द्वितीयगाथासूत्रपदान्युच्यन्ते-ओघेन तु नियुक्तिं वक्ष्ये चरणकरणानुयोगात् अल्पाक्षरां महार्थाम् अनुग्रहार्थ सुविहितानाम् , एतावन्ति पदानि । अधुना पदार्थः–'अरहते' इत्यादि, अशोकाद्यष्टमहाप्रातिहार्यादिरूपां पूजामहन्तीत्यर्हन्तः तान् अर्हतः, 'वंदित्ता' इति 'वदि अभिवादनस्तुत्योः' स्तुत्वेत्यर्थः, समानकर्तृकयोः पूर्वकाले क्त्वाप्रत्ययो भवतीति वन्दित्वा, किम् ?–'ओघ-IN नियुक्तिं वक्ष्ये' इति द्वितीयगाथाक्रियया सह योगः, किमहत एव वन्दित्वा ?, नेत्याह-'चतुर्दशपूर्विणश्च' चतुर्दश
ROSHOSHIRISHORAIRRORS