SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ मार्गपृच्छा नि.१६-२० श्रीओघनियुक्तिः द्रोणीया वृत्तिः ॥२५॥ सके बालनपुंसकं स्थविरस्त्री बाला स्त्री वाऽभिगृह्यते, एते मार्गानभिज्ञाः शङ्का च स्यात्, क तर्हि व्यवस्थितेन पृच्छनीयमित्याह पासहिओ य पुच्छेज वंदमाणं अवंदमाणं वा । अणुवइऊण व पुच्छे तुहिकं मा य पुच्छिज्जा ॥१८॥ I 'पार्थस्थितः' समीपे व्यवस्थितः पृच्छेत् , किंविशिष्टं तं पृच्छेत् ?-वन्दनं कुर्वाणमकुर्वाणं वा, अथासौ समीपमतिक्रम्य यात्येव ततः 'अणुवइऊणं च' अनुव्रजनं कृत्वा कतिचित्पदानि गत्वा प्रष्टव्यः, अथासौ पृच्छयमानोऽपि न किञ्चिद्वक्ति तूष्णीं व्रजति, ततो नैव पृच्छनीय इति ॥ पथन्भासे य ठिओ गोवाई मा य दूरि पुच्छिज्जा। संकाईया दोसा विराहणा होइ दुविहा उ ॥१९॥ तथा पन्थाभ्यासे-समीपे स्थितः कश्चिद्गोपालादिः, आदिशब्दात्कर्षकपरिग्रहः, स च पृच्छनीयः, मा च दूरे व्यवस्थित गोपालादि पृच्छेत् , शंकादिदोषसद्भावात्, नूनमस्य द्रविणमस्ति बलीवर्दादिकंवा)शृङ्गिणं करोतीत्येवमादयः।दूरे च गच्छतो| द्विविधा विराधना-आत्मसंयमविषया, आद्या कण्टकादिभिरितराऽनाक्रान्तपृथिव्याद्याक्रमणेन ॥ यदा तु पुनरन्यधार्मिको मध्यमवयाः पुरुषो नास्ति यः पन्थानं पृच्छयते तदा कः प्रष्टव्य इत्याह- असई मज्झिम थेरो दढस्सुई भद्दओ य जो तरुणो । एमेव इत्थिवग्गे नपुंसवग्गे य संजोगा ॥२०॥ ___ असति मध्यमपुरुषे स्थविरः पन्थानं पृच्छनीयः, किंविशिष्टः ?-दृढस्मृतिः, अथ स्थविरों न भवति ततस्तरुणः प्रष्टव्यः, कीदृशः ?-यः स्वभावेनैव भद्रकः । स्त्रीवर्गेऽप्येवमेव पृच्छा कर्त्तव्या, एतदुक्तं भवति-प्रथमं मध्यमवयाः स्त्रीमार्ग प्रष्टव्या २५॥
SR No.600353
Book TitleOgh Niryukti
Original Sutra AuthorBhadrabahuswami
AuthorPurvacharya, Dronacharya,
PublisherAgamoday Samiti
Publication Year1919
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy