SearchBrowseAboutContactDonate
Page Preview
Page 417
Loading...
Download File
Download File
Page Text
________________ करणं' उपकरोतीत्युपकरणं, तथा करणमुच्यत उपधिरिति, एते एकार्थाः । इदानीं भेदतः प्रतिपादयन्नाहओहे उवग्गहंमि य दुविहो उवही उ होइ नायवो। एकेकोवि य दुविहो गणणाऍ पमाणतो चेव ॥ ६६७॥ उपधिर्द्विविधः-ओघोपधिः उपग्रहोपधिश्चेति, एवं द्विविधो विज्ञेयः, इदानीं स एवैकैको द्विविधः, कथं?, गणणाप्रमाणेन प्रमाणप्रमाणतश्च, एतदुक्तं भवति-ओघोपधेर्गणणाप्रमाणेन प्रमाणप्रमाणेन च द्वैविध्यं, अवग्रहोपधेरपि गणणाप्रमाणेन प्रमाणप्रमाणेन च द्वैविध्यं, तत्र ओघोपधिनित्यमेव यो गृह्यते, अवग्रहावधिस्तु कारणे आपन्ने संयमार्थ यो गृह्यते सः | अवग्रहावधिरिति, ओघोपधेः गणणाप्रमाणेन प्रमाणमेकद्व्यादिभेदं वक्तव्यं प्रमाणप्रमाणं च कर्त्तव्यं दीर्घपृथुतया, तथाऽवग्रहोपधेरपि एकद्व्यादिगणणाप्रमाणं प्रमाणप्रमाणं च दीर्घपृथुत्वद्वारेण वक्तव्यमिति । तत्र ओघोपधिर्जिनकल्पिकानां प्रतिपाद्यते, तत्रापि गणणाप्रमाणतः प्रतिपादयन्नाहपत्तं पत्ताबंधो पायढवणं च पायकेसरिया। पडलाइं रयत्ताणं च गुच्छओ पायनिजोगो ॥ ६६८॥ तिन्नेव य पच्छागा रयहरणं चेव होइ मुहपत्ती । एसो दुवालसविहो उवही जिणकप्पियाणं तु ॥ ६६९॥ एए चेव दुवालस मत्तग अइरेगचोलपट्टो य । एसो चउद्दसविहो उवही पुण थेरकप्पम्मि ॥ ६७०॥ | पात्रकं पात्रकबन्धस्तथा पात्रकस्थापनं 'पात्रकेसरिका' पात्रकमुखवस्त्रिका तथा पडलानि रजस्त्राणं गोच्छकः अयं 'पात्रनिर्योगः' पात्रपरिकर इत्यर्थः । त्रयः 'प्रच्छादकाः' कल्या इत्यर्थः, तथा रजोहरणं मुखवस्त्रिका चेति, एष द्वादशविध उपधिर्जिनकल्पिकानां भवति । इदानी स्थविरोपर्घि गणणाप्रमाणतः प्रतिपादयन्नाह-एत एव द्वादश जिनक प्रतिपादयन्नाहरणच दीर्घपृथवाव्य प्रमाणममा संयमार्थ यो, वर्ण
SR No.600353
Book TitleOgh Niryukti
Original Sutra AuthorBhadrabahuswami
AuthorPurvacharya, Dronacharya,
PublisherAgamoday Samiti
Publication Year1919
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy