SearchBrowseAboutContactDonate
Page Preview
Page 415
Loading...
Download File
Download File
Page Text
________________ तिसु तिष्णि तारगा उ उर्दुमि पाभाइए अदिद्वेवि । वासासु अतारागा चउरो छन्ने निविडोति ॥३१३॥ (भा०) 'त्रिषु' आद्येषु कालेषु घनसंछादितेऽपि ऋतुबद्धे काले यदि तारकास्तिस्रो दृश्यन्ते ततस्त्रयः काला आद्या गृह्यन्तं इति, 'पाभाइए अदिद्वेविति प्राभातिके काले गृह्यमाणे ऋतुबद्धे घनाच्छादिते यदि तारकत्रितयमपि न दृश्यते तथाऽपि गृह्यते काल इति । वर्षाकाले पुनर्घनाच्छादितेऽपि अदृष्टतारा एव चत्वारोऽपि काला गृह्यन्ते । छन्ने न सावकाशे एते चत्वारोऽपि काला गृह्यन्ते । 'निषिद्वोवि'त्ति प्राभातिके त्वयं विशेषः - उपविष्टोऽपि छन्ने स्थाने ऊर्द्धस्थानस्यासति गृह्णाति । एतदेव व्याख्यानयन्नाह - ठाणासति बिंदू हइ बिट्टोवि पच्छिमं कालं । पडियरह बाहि एक्को एक्को अंतट्ठिओ गिण्हे ॥ ६६१ ॥ स्थानस्यासति, एतदुक्तं भवति यद्यूर्द्धस्थितो न शक्नोति ग्रहीतुं कालं ततः स्थानाभावे सति तोयबिन्दुषु वा पतत्सु सत्सु गृह्णात्युपविष्टः पश्चिमं प्राभातिकं कालं, तथा प्रतिजागरणं करोति द्वारि एको स्थितः ओलिकापातादेरधस्तात्स्थितः साधुः, एकश्च साधुरन्तः- मध्ये स्थितो गृह्णाति कालमिति । इदानीं कः कालः कस्यां दिशि प्रथमं गृह्यते ?, एतत्प्रदर्शयन्नाह - पाओसियअहुरत्ते उत्तरदिसि पुछ पेहए कालं । वेरन्तियंमि भयणा पुढदिसा पच्छिमे काले ।। ६६२ ॥ प्रादोषिकः अर्द्धरात्रिकश्च कालः द्वावप्येतावुत्तरस्यां दिशि 'पूर्व' प्रथमं प्रत्युपेक्षते-गृह्णाति तत्रः पूर्वादिदिक्षु, वैरात्रिके - तृतीयकाले भजना - विकल्पः कदाचित् उत्तरस्यां पूर्व पूर्वस्यां वा, पुनः पश्चिमे - प्राभातिके काले पूर्वस्यां दिशि प्रथमं करोति कायोत्सर्ग ततः पुनर्दक्षिणादाविति ।
SR No.600353
Book TitleOgh Niryukti
Original Sutra AuthorBhadrabahuswami
AuthorPurvacharya, Dronacharya,
PublisherAgamoday Samiti
Publication Year1919
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy