SearchBrowseAboutContactDonate
Page Preview
Page 407
Loading...
Download File
Download File
Page Text
________________ नसीहिया नमोकाशनार्थ यदि निषेधिकामिपथिकाप्रत्यय का आगतो, पुनरस निसीहिया नमोकारे काउस्सग्गे य पंचमंगलए । पुवाउत्ता सचे पट्ठवणचउकनाणत्तं ॥ ६४९ ॥ प्रविशंश्च गुरुसमीपे कालसन्दिशनार्थ यदि निषेधिकां न करोति ततः कालो व्याहन्यते, नमस्कारं करोति नमो खमा| समणाणं, अथैवं न भणति ततः कालव्याघातो भवति, प्राप्तश्चेर्यापथिकाप्रत्ययं 'कायोत्सर्गम्' अष्टोच्छ्वासं करोति, नमस्कार च चिन्तयति, ईरियावहियं च अवस्सं पडिक्कमतिजइ दूराओ जदि आसन्नओ वा आगतो, पुनरसौ नमस्कारेणोत्सारयतिपञ्चमङ्गलकेनेत्यर्थः, पुनश्च संदिशापयित्वा कालग्रहणार्थ निर्गच्छति, निर्गच्छंश्च जदि आवस्सियं न करेइ खलति पडति वा |जीवो वा अंतरे हवेज्जा एवमादीहिं उवहम्मइ । इदानीं कालग्रहणवेलायां किं कर्त्तव्यं साधुभिः ? इत्याह-'पुवाउत्ता' पूर्वमेव दण्डधारिघोषणानन्तरमुपयुक्ताः सर्वे गर्जितादौ भवन्ति, उपयुक्ताश्च सन्तः कालग्रहणोत्तरकालं सर्वे स्वाध्यायप्रस्थापनं कुर्वन्ति । 'चउक्कनाणत्तंति कालचतुष्कस्य यथा नानात्वं भवति तथा वक्ष्यामः, कालचतुष्कं एकः प्रादोषिक: अपरोऽर्द्धरात्रिकः अपरो वैरात्रिकः अपरः प्राभातिकः, एतच्च भाष्यकारो वक्ष्यति । इदानीं कालं गृह्णतः को विधिरित्यत आह - थोवावसेसियाए सञ्झाए ठाइ उत्तराहुत्तो। चउवीसगदुमपुफियपुत्वग एकेक्कयदिसाए ॥ ६५० ॥ | स्तोकावशेषायां सन्ध्यायां पुणो कालमंडलयं पमज्जित्ता निषीधिकां कृत्वा कालमण्डलके प्रविशति, ततश्चोत्तराभिमुखः कायोत्सर्ग करोति, तस्मिंश्च पञ्चनमस्कारमष्टोच्छासं चिन्तयति, पुनश्च नमस्कारेणोत्सार्य मूक एव चतुर्विंशतिस्तवं लोगस्सुज्जोयकरं पठति मुखमध्ये, तथा 'दुमपुफियपुत्वगं'ति दुमपुष्पिका-धम्मो मंगलं पुत्वगंति-श्रामण्यपूर्वकं 'कहं नु कुजा सामन्न
SR No.600353
Book TitleOgh Niryukti
Original Sutra AuthorBhadrabahuswami
AuthorPurvacharya, Dronacharya,
PublisherAgamoday Samiti
Publication Year1919
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy