________________
आह-तान्येव भुक्त्वा स्निग्धमधुराणि ततः करान् प्रोञ्छयति प्रोञ्छयित्वा च करान् 'मुंचऽहाकडए'त्ति यथाकृतानि-अपरिकर्माणि पात्रकाणि समुद्दिशनार्थ मुच्यन्ते । 'भायण'त्ति गयं, इदानीं ग्रहणद्वारप्रतिपादनायाह
कुकुडिअंडगमित्तं अहवा खुड्डागलंबणासिस्स ।
लंबणतुल्ले गिण्हइ अविगियवयणो य राइणिओ॥ २८६ ॥ (भा०) ततः पतग्रहकात्कवलं गृह्णन् कुक्कुड्यण्डकमात्रं गृह्णाति, अथवा 'खुड्डागलंबणासिस्स' क्षुल्लकेन लम्बनकेन-हस्तेन |अशितुं शीलं यस्य स क्षुल्लकलम्बनाशी तत्तुल्यान् कवलान् गृह्णाति-स्वभावेनैव लघुकवलाशिनस्तुल्यान् कवलान् गृह्णाति 'अविकियवयणो य राइणिओ' अविकृतवदनो रत्नाधिकः, न भावदोषेण मुखमत्यर्थ बृहत्कवलप्रक्षेपार्थ निर्वादयति, किं तर्हि १, स्वभावस्थेनैव मुखेनेति । अथवाऽयं ग्रहणविधिःगहणे पक्खेवंमि अ सामायारी पुणो भवे दुविहा ।गहणं पायंमि भवे वयणे पक्खेवणा होइ ॥२८७॥ (भा०)। __ "ग्रहणे' कबलादाने प्रक्षेपे च सामाचारी पुनरियं भवति द्विविधा, तत्र ग्रहणं पात्रकविषये भवेत् पात्रकात्कवलोत्क्षेपः, वदनविषयं च प्रक्षेपणं कवलस्य भवति । तत्र.पात्रकात्कथं भक्षयद्भिर्गृह्यते ? इत्येतत्प्रदर्शयन्नाहकडपयरच्छेएणं भोत्तवं अहव सीहखइएणं । एगेहि अणेगेहिवि वजेत्ता धूमइंगालं ॥ २८८ ॥ (भा०) तत्र कटकच्छेदेन भोक्तव्यं यथा कलिनस्य खण्डलकं छित्त्वाऽपनीयते, एवमसावपि भुङ्के, तथा प्रतरच्छेदेन वा
HASSANASSASS -**%*