SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ *ESCUCHARISTARS ____एमेव उ ओमम्मि भेओ उ अलंभि गोणिदिढतो। 'एवमेवे ति अनेनैव प्रकारेणावमद्वारमपि व्याख्येय, यथाऽशिवद्वारं व्याख्यातं, यो विधिरशिवद्वारे सोऽत्रापीत्यर्थः, तुशब्दो बहुसादृश्यप्रतिपादनार्थः, अवमे-दुर्भिक्षे, अपिशब्दः सादृश्यसंभावने, तदुच्यते-“संवच्छरवारसएण होहिति ओमंति ते तओ निति" इत्यादि, भेदन-भेदः-एकैकता, तुशब्द एवकारार्थः, कस्मिन् पुनरसौ भवतीत्याह-अलाभे भवति, अप्राप्तावाहारस्येत्यर्थः, यदेको लभते तवावपि, द्वौ वा दृष्ट्वा न किश्चिद्ददाति, एकैक एव लभते इत्यवमादेरेकाकिता। अत्र दृष्टान्तमाह-'गोणिदिलुतो' गोदृष्टान्तः, यथा संहतानां गवां स्वल्पे तृणोदके न तृप्तिः, पृथग्भूतानां स्यात्, तथेहापीति ॥ ओमोयरियाएवि एसेव कमो, बारसहिं संवच्छरेहिं आरद्धं जाहे पारं न पावंति ताहे गणभेयं करेइ, नाणतं-गिलाणो न तहा परिहरिजइ। एत्थ गोणिदिलुतो कायबो, अल्पं गोब्राह्मणं नन्दति, एवं ओमेणवि एगागिओ दिहो॥दार ॥ साम्प्रतं राजभयद्वारप्रतिपादनायाह रायभयं च चउद्धा चरिमदुगे होइ गणभेओ ॥ २३ ॥ (भा०) राज्ञो भयं राजभयं, चशब्द एवमेवेत्यस्यानुकर्षणार्थः “संवच्छर बारस” इत्यादि, कियन्तः पुनस्तस्य भेदा इत्याहचतुर्धा, सङ्ख्यायाः प्रकारवचने धा, चतुष्प्रकारमित्यर्थः, के पुनस्ते इति ?, मा त्वरिष्ठा अनन्तरमेवोच्यन्ते, किं चतुर्वपि अवमौदर्यतायामपि एष एव क्रमः, द्वादशभ्यो वर्षेभ्य आरभ्य यदा पारं न प्रामुवन्ति तदा गणभेदं करोति, नानात्वं-लानो न तथा परिहियते, अन्न गोदृष्टान्तः कर्त्तव्यः । गोब्राह्मणौ अल्पो नन्दतः, एवमवमेनाप्येकाकी दृष्टः ।
SR No.600353
Book TitleOgh Niryukti
Original Sutra AuthorBhadrabahuswami
AuthorPurvacharya, Dronacharya,
PublisherAgamoday Samiti
Publication Year1919
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy