________________
भङ्गा भवन्ति, तेषां च भङ्गकानां मध्ये यस्मिन् भङ्गके कालो न पर्याप्यते तस्मिन्निवर्त्तत एव, शेषेषु चतुर्यु भङ्गेषु 'भजनां' विकल्पनां करोति सेवनां वा करोति । इदानी भजनां दर्शयन्नाहअण्णं च वए गाम अण्णं भाणं व गेण्ह सइ काले । पढमे बितिए छप्पंचमे य भय सेस य नियत्ते ॥५०६॥ __ अन्यं ग्राम वा व्रजति काले पर्याप्यमाणे, अन्यं च भाजनं गृह्णाति पर्याप्यमाणे काले सति, एवं प्रथमे भङ्गे द्वितीयेच षष्ठे पञ्चमभङ्गके च "भजनां' सेवनां करोति काले सति, शेषभङ्गेषु येषु कालो न पर्याप्यते तेषु 'निवर्तन' गन्तव्यं भिक्षाया इत्यर्थः । स च पर्याप्यमाणः कालो द्विविधः-जघन्य उत्कृष्टश्च, तत्र जघन्यप्रतिपादनायाह
वोसिहमागयाणं उबासिअ मत्तए य भूमितिअं। पडिलेहियमत्थमणं सेसस्थमिए जहन्नो उ ॥५०७॥ सञ्ज्ञां व्युत्सृज्यागतानां मात्रकं च यस्मिन् तोयं गृहीत्वा गत आसीन्निर्लेपनार्थं तस्मिन्नद्वासिते-शोषिते सति भूमित्रिके च-कायिकीभूमौ द्वादश स्थण्डिलानि संज्ञाभूमौ द्वादश स्थण्डिलानि कालभूमौ त्रीणि स्थण्डिलानि, एवमस्मिन् भूमित्रितये प्रत्युपेक्षिते सति यदाऽस्तमनं भवति तस्मिन् प्रदेशे 'अत्थमिए'त्ति शेषोपधि अस्तमिते आदित्ये प्रत्युपेक्षते यदा अयमित्थंभूतो जघन्यः काल इति । इदानीमुत्कृष्टकालप्रतिपादनायाहमुत्ते वियारभूमी गयागयाणं तु जह य ओगाहे । चरमाए पोरिसीए उक्कोसो सेस मज्झिमओ॥५०८॥ भुक्ते सति विचारभूमि गत्वाऽऽगतानां यथा 'ओगाहे' आगच्छति चरमा पौरुषी-चतुर्थः प्रहरः, अथवा चरमपौ