________________
करोत्यात्मना चोत्कृष्टतरं च घृतपूर्णादि मध्याह्ने भक्षयत्येकाकिनी ॥ तृणकाष्ठहारकाणां न किञ्चिद्ददाति दासवर्गस्य तथा प्रेष्यो यः कश्चित्प्रेष्यते तद्वर्गस्य च न किञ्चिद्ददाति, न च 'प्रेषणे' कार्ये नियुङ्क्ते कर्मकरान् ततश्च भोजनादिना विना 'पलाणा' नष्टाः हृतं च यत्किञ्चिद्गृहे रिक्थमासीत्, एवं हानिर्जाता गेहस्य, तत्रायं लौकिकोऽप्रशस्तो भावः । इदानीं लौकिकप्रशस्तभावप्रतिपादनायाह-द्वितीयस्य या भार्या सा प्रेष्यवर्ग व्यापारयित्वा प्रेषणा कार्ये कर्मणि च विविधे काले च तेषामाहारं ददाति स्वयं च काले आहारमुपजीवति । अयं च लौकिकोऽत्र प्रशस्तो भाव उक्तः, इदानीं लोकोत्तराप्रशस्तप्रतिपादनायाह
वन्नबलरूवहेडं आहारे जो तु लाभि लग्भतें । अतिरेगं न उ गिण्हइ पाउग्गगिलाणमाईणं ॥ ४९९ ।। जह सा हिरण्णमाईसु परिहीणा होइ दुक्खआभागी । एवं तिगपरिहीणो साहू दुक्खस्स आभागी ॥ ५०० ॥ आयरियगिलाणट्ठा गिव्ह न महंति एवं जो साहू । नो वन्नरूव हेडं आहारे एस उ पसत्थो । ५०१ ॥
वर्णबलरूपहेतुमाहारयति यश्च लाभे क्षीरादौ लभ्यमाने सति प्रायोग्यं ग्लानादीनामतिरिक्तं न गृह्णाति । यथा सा गृहस्था हिरण्यादिपरिहीना संजाता दुःखभागिनी च जाता एवं साधुरपि त्रिकेण - ज्ञानदर्शनचारित्रलक्षणेन हीनो दुःखस्य भागी भवति । उक्तो लोकोत्तरोऽप्रशस्तः, इदानीं लोकोत्तर प्रशस्तभावदर्शनायाह - आचार्यादीनामर्थाय गृह्णाति न ममेदं योग्यं किन्त्वाचार्यादेः, एवं यः साधुर्गृह्णाति, शेषं सुगमं । उक्तो लोकोत्तरः प्रशस्तो भावः, उक्तं भावद्वारम् ॥
उगम उपायणएसणाए बायाल होंति अवराहा । सोहेउं समुयाणं पप्पने बच्चए वसहिं ॥ ५०२ ॥