SearchBrowseAboutContactDonate
Page Preview
Page 341
Loading...
Download File
Download File
Page Text
________________ | गृहस्थयोः पादस्योपरि पतितेन भण्डकेन वधो भवति, एकतरस्य वा वधो भवति, तथा दाहश्च अत्युष्णे तस्मिन् द्रव्ये पतिते सति भवति 'एमेव'त्ति उभयोरन्यतरस्य वा ॥ इदानीं 'अचियत्ते'त्ति व्याख्यानयन्नाह - बहुगहणे अचियत्तं वोच्छेओ तदन्न दव तस वावि । छक्कायाण य वहणं अहमत्ते तंमि मत्तंमि ॥२३१॥ (भा०)॥ बहुग्रहणे तस्य घृतादिद्रव्यस्य 'अचियत्तं' अप्रीतिर्भवति तस्य तद्गृहपतेर्वा, व्यवच्छेदो वा तदन्यस्य द्रव्यस्य भवति - तस्माद्-घृतादेः अन्यद्-क्षीरगुडादि तस्य व्यवच्छेदो भवति, तस्य वा घृतादेर्द्रव्यस्य वा व्यवच्छेदो भवतीति, तथा षट्कायानां वा हननं भवति 'अतिमात्रे' बृहत्प्रमाणे 'मात्र के' स्थाल्यादौ गृहीते सति । उक्तं गुरुकद्वारं, त्रिविधेतिद्वारंप्रतिपादयन्नाह— तिविहो य होइ कालो गिम्हो हेमंत तह य वासासु । तिविहो य दायगो खलु थी पुरिस नपुंसओ चेव ॥ ४८३ ॥ एक्किकोवि अतिविहो तरुणो तह मज्झिमो य थेरो य । सीयतणुओ नपुंसो सोम्हित्थी मज्झिमो पुरिसो || ४८४॥ कालस्त्रिविधो भवति, तद्यथा - ग्रीष्मो हेमन्तो वर्षा च, तत्र त्रिविधेऽपि काले दाता त्रिविध एव भवति, स्त्री पुमान्नपुंसकं चेति ॥ पुनः स एकैकख्यादिदाता त्रिविधो भवति - तरुणो मध्यमः स्थविरश्च । इदानीं नपुंसकादीनां स्वरूपप्रतिपाद|नायाह-शीतलतनुर्नपुंसको भवति, 'सोम्हित्थि'त्ति सोष्मा स्त्री भवति, मध्यमश्च पुरुषो भवति - नाप्युष्णो नातिशीतल इति ॥ पुरकम्मं उदउल्लं ससणिद्धं तंपि होइ तिविहं तु । इक्किक्कंपि य तिविहं सच्चित्ताचित्तमीसं तु ॥ ४८५ ॥
SR No.600353
Book TitleOgh Niryukti
Original Sutra AuthorBhadrabahuswami
AuthorPurvacharya, Dronacharya,
PublisherAgamoday Samiti
Publication Year1919
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy