SearchBrowseAboutContactDonate
Page Preview
Page 317
Loading...
Download File
Download File
Page Text
________________ HORARISO80649* प्रवचनमनपेक्षमाणस्य तस्य 'निद्धन्धसस्य' निःशूकस्य लुब्धस्य बहुमोहस्य भगवता संसारोऽनन्त उक्त इति । तथा न केवलं बहुमोहस्यैतद्भवति योऽप्यन्यस्तस्याप्येवं कुर्वतोऽनन्त एव संसारः, एतदेवाहजो जह व तह व लडं गिण्हइ आहारउवहिमाईयं । समणगणमुक्कजोगी संसारपबहुओ भणिओ॥ ४४६॥ | सुगमा ॥ एवं तावज्ज्ञानवतामपि दोषः, ये तु पुनराचार्येण मुण्डितमात्रा अगीतार्था एव मुक्तास्ते सुतरामज्ञानादेव एषणादि न कुर्वन्ति, एतदेवाहएसणमणेसणं वा कह ते नाहिंति जिणवरमयं वा । करिणमिव पोयाला जे मुक्का पञ्चईमेत्ता ॥४४७॥ सुगमा ॥ नवरं 'कुरिणमि' महति अरण्ये 'पोयाला' मृगादिपोतलकास्त इह यूथपतिना मुक्ताः सन्तो विनश्यन्ति एवं तेऽपीति । एवं तावदाचार्यदोषेणैवंविधा भवन्ति, एते तु स्वदोषेण भवन्ति, के च ते ?, अत आह-- गच्छंमि केइ पुरिसा सउणी जह पंजरंतरनिरुद्धा । सारणवारणचइया पासत्थगया पविहरंति ॥ ४४८॥ ___ गच्छे केचित् पुरुषा निरुद्धाः सन्तः शकुनीव पञ्जरान्तरनिरुद्धा, ते 'सारणवारणचइया' सारणं-प्रसर्पणं संयमे तेन, 'स गतौ' इत्यस्येदं रूपं अथवा सारणं-स्मारणं वासंयमविषयं,वारणं-दोषेभ्यो निवारणमिति एवं निरुद्धाः सन्तः 'चइता' त्याजिताः सन्तः पार्थस्थादिषु प्रविहरन्ति । तिविहोवघायमेयं परिहरमाणो गवेसए पिंडं। दुविहा गवेसणा पुण दवे भावे इमा दवे ॥ ४४९॥ एवं त्रिविधस्य ज्ञानदर्शनचारित्रस्योपघातभूतं पिण्ड 'परिहरन् परित्यजन् ,किं कुर्वीत ? अत आह 'गवेसए' गवेषयेद् SARKARI
SR No.600353
Book TitleOgh Niryukti
Original Sutra AuthorBhadrabahuswami
AuthorPurvacharya, Dronacharya,
PublisherAgamoday Samiti
Publication Year1919
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy