________________
MARRIAGRANAGAR
मन्यत्रापि योज्यं, 'येन वा' बाह्येन वस्तुना इतरः-आत्मा बध्यते कर्मणाऽष्टप्रकारेण सोऽप्रशस्तः । इदानी प्रशस्तं भावपिण्डं प्रतिपादयन्नाह
तिविहो होइ पसत्थो नाणे तह दसणे चरित्ते य । मोत्तूण अप्पसत्थं पसत्थपिंडेण अहिगारो॥४०९॥ त्रिविधः प्रशस्तो भावपिण्डः-ज्ञानविषयः दर्शनविषयः चारित्रविषयश्च, तत्र ज्ञानपिण्डो ज्ञानं स्फातिं नीयते येन, तथा दर्शनं स्फाति नीयते येन, चारित्रं स्फाति नीयते येन, स बाह्योऽभ्यन्तरश्च पिण्डः, मुक्त्वाऽप्रशस्तं प्रशस्तपिण्डेनाधिकारः। अयं च भावपिण्डः केन पिण्ड्यते ?-प्रचुरीक्रियते, शुद्धेनाहारोपधिशय्यादिना, अत्र चाहारेण प्रकृतं, स एव प्रशस्तो भावपिण्डः, कारणे कार्योपचारात् , ज्ञानादिपिण्डकारणमसौ, स चाहार एषणाशुद्धो ग्राह्यः, अनेन संबन्धेनागता. एषणा प्रतिपाद्यते । अथवा पूर्वमिदमुक्त-पिंडं च एसणं च वोच्छं तत्र पिण्ड उक्तः, इदानीमेषणा प्रतिपाद्यते, अथवा स्वयमे वायं भाष्यकृत्संबन्धं करोति|लित्तंमि भायणंमि उ पिंडस्स उवग्गहो उ कायवो । जुत्तस्स एसणाए तमहं वोच्छं समासेणं ॥२१२॥ (भा०)
लिप्ते भाजने सति ततः पिण्डस्योपग्रहो-ग्रहणं कर्त्तव्यं, किंविशिष्टस्य पिण्डस्य ?-एषणायुक्तस्य, अतस्तामेवैषणां प्रतिपादयन्नाह
नामं ठवणादविए भावंमि य एसणा मुणेयवा। दमि हिरण्णाई गवेसगहचुंजणा भावे ॥ ४१०॥ .