________________
भिर्मिलितैस्त्रीन्द्रियपिण्ड उच्यते, एवं सजातीयैर्मिलितैः पिण्डो वक्तव्यो यावत्पञ्चेन्द्रिया इति स्वस्थाने स्वस्थाने स पिण्डः। अयं तावद् द्वीन्द्रियादिः पञ्चेन्द्रियपर्यन्तः सचित्तादिः पिण्डो भवति, यश्चाचित्तपिण्डो द्वीन्द्रियादिसत्कस्तेन चैतत्कार्यम्
बेइंदियपरिभोगो अक्खाण ससंख सिप्पमाईणं । तेइंदियाण उद्देहिगाइ जं वा वए विजो ॥ ३६६ ॥ द्वीन्द्रियाणां परिभोगः 'अक्षाणां' चन्दनकानां सशङ्खा यांःशुक्तयः तदादीनां, शङ्खषु शुक्तिषु च औषधानि क्रियन्ते । त्रीन्द्रियाणां मध्ये उद्देहिकया, आदिशब्दादन्येन वा त्रीन्द्रियेण, यद्वा वैद्यो ब्रूयाद्, उद्देहिकायाः सत्कया मृत्तिकया प्रयोजनं, स सर्वस्त्रीन्द्रियपरिभोगः । इदानीं चतुरिंद्रियपरिभोग उच्यतेचरिंदियाण मक्खियपरिहारो आसमक्खिया चेव । पंचिंदिअपिंडंमि उ अपवहारी उ नेरइया ।। ३६७॥
चतुरिन्द्रियाणां मध्ये 'मक्षिकापरिहारेण' मक्षिकापुरीषेण ऊर्द्धविरेकः क्रियते शरीरंपाटवार्थ, अश्वमक्षिकोपयोगश्च तयाऽक्षणोरक्षराः पतिता उद्धियन्ते । अयं चतुरिन्द्रियपिण्डः, पञ्चेन्द्रियपिण्डे यदि परं नारकैर्व्यवहारः-उपयोगो न कश्चिक्रियते । शेषास्तु तिर्यञ्चो देवा मनुष्याश्चोपयुज्यन्ते, तत्र तिरश्चां पञ्चेन्द्रियाणां सत्कमुपयोगं दर्शयन्नाह| चम्मट्टिदंतनहरोमसिंगअमिलाइच्छगणगोमुत्ते । खीरदहिमाइयाणं पंचिंदिअतिरिअपरिभोगो॥३६८॥
तत्र चर्मणा कुष्ठिनः कार्य भवति, अस्ना-गृध्रनलकेन प्रयोजनं भवति वाय्वाद्यपहरणार्थ पादे बध्यते, दन्तेन सूकरादेः संबन्धिना प्रयोजनं नखेन वा, रोमभिः प्रयोजनमुरभ्रादीनां सत्कैस्तैः कम्बलिका भवति, शृङ्गेण किञ्चित् प्रयोजनं भवेत्, अमिला-उरभ्रा तत्पुरीषं पामादावुपयुज्यते, तेन गोमूत्रेण चोपयोगः । शेषं सुगमम् । इदानीं मनुष्योपयोगो दाते
RRRRRRRRIAGRA