SearchBrowseAboutContactDonate
Page Preview
Page 239
Loading...
Download File
Download File
Page Text
________________ । रजस्त्राणस्य भाजनस्य च धरणम्-अनिक्षेपणं कर्त्तव्यं, कदा?-'ऋतुबद्धे' शीतोष्णकालयोः, वर्षासु पुनर्भाजनं निक्षिपेदे कान्ते, किमर्थं पुनर्भाजनस्य उत्सङ्गे धरणं क्रियते ? अत आह-'अगणी' अग्निभयेन-प्रदीपनकभयेन स्तेनभयेन वा | राजक्षोभेन वा, मा भूदाकुलस्य गृह्णतः पलिमन्थेनात्मविराधना संयमविराधना वा स्यात् ॥ परिगलमाणा हीरेज डहणा भेया तहेव छक्काया । गुत्तो व सयं डज्झे हीरज व जं च तेण विणा ॥१७६॥(भा०) __ अग्यादिक्षोभे निर्गच्छत आकुलस्य अपरिबद्धा परिगलति ततश्च परिगलमाना केनचिदपहियते 'डहण' त्ति दह्येत वा अबद्धा सती उपधिर्यावद् गृह्यते, 'भेया' इति आकुलस्य निर्गच्छतोऽनासन्नं पात्रक गृह्णतो 'भेदो वा' विनाशो वा भवेत्, | ततश्च षट्कायस्यापि विराधना संभवति । 'गुत्तोव सयं डज्झे' संमूढो वा उपधिपात्रग्रहणे स्वयं दह्येत, स्तेनकसंक्षोभेच |सति उपधिपात्रकग्रहणव्याक्षेपेण स्तेनकैः-म्लेच्छरपहियते, 'जं च तेण विण' त्ति यच्च 'तेन विना' उपधिपात्रकादिन, विना भवति आत्मविराधना संयमविराधना च तत्तदवस्थमेवेति । आह-पुनः किं कारणं वर्षासु उपधिर्न बध्यते पात्रकाणि वा निक्षिप्यन्ते ?, उच्यतेवासासु नत्थि अगणी नेव य तेणा उदंडिया सत्था। तेण अबंधण ठवणा एवं पडिलेहणा पाए ॥१७७॥(भा०) - वर्षासु नास्ति अग्निभयं नापि च स्तेनभयं, स्तेनाश्चात्र पल्लीपतिकादयो द्रष्टव्याः, यतस्त एव वर्षासु प्रतिबन्धेन नाग च्छन्तीति, दण्डिका-अन्यराजानो वर्षासु स्वस्थास्तिष्ठन्ति, विग्रहस्य तस्मिन् कालेऽभावात् , अतस्तेन कारणेन 'अबंधन' त्ति SONNALISISAARISSA
SR No.600353
Book TitleOgh Niryukti
Original Sutra AuthorBhadrabahuswami
AuthorPurvacharya, Dronacharya,
PublisherAgamoday Samiti
Publication Year1919
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy