________________
प्रकारः संयमः, तत्प्रतिपादनाच्चोक्ता वस्त्रप्रत्युपेक्षणा, तत्समाप्तौ च किं कर्तव्यमित्यत आह- 'समत्त पडिलेहणाए सज्झाओ' समाप्तायां प्रत्युपेक्षणायां स्वाध्यायः कर्त्तव्यः सूत्रपौरुषीत्यर्थः पादोनप्रहरं यावत् । इदानीं पात्रप्रत्युपेक्षणामाह'चरिमाए' चरमायां पादोनपौरुष्यां प्रत्युपेक्षेत 'ताहे'त्ति 'तदा' तस्मिन् काले स्वाध्यायानन्तरं पात्रकद्वितयं प्रत्युपेक्षते । इदानीं यदुक्तं 'चरमपौरुष्यां पात्रकद्वितयं प्रत्युपेक्षणीयं' तत्र पौरुष्येव न ज्ञायते किंप्रमाणा ? अतस्तत्प्रतिपादनायाहपोरिसि पमाणकालो निच्छयववहारिओ जिणक्खाओ । निच्छयओ करणजुओ ववहारमतो परं वोच्छं ॥ २८९ ॥ पौरुष्याः प्रमाणकालो द्विविधः निश्चयतो व्यवहारतश्च ज्ञातव्यः, तत्र 'निश्चयतो' निश्चयनयाभिप्रायेण करणयुक्तोगणितन्यायात्, अतः परं 'व्यावहारिको' व्यवहारनयमतेन वक्ष्ये । तत्र निश्चयपौरुषीप्रमाणकालप्रतिपादनायाहअयणाईयदिणगणे अट्टगुणेगट्टिभाइए लद्धं । उत्तरदाहिणमाई पोरिसि पयसुज्झपक्खेवा ॥ २८२ ॥ देक्खिणायने उत्तरायणदिनानि उत्तरायणे दक्खिणायनदिनानि मीलयित्वा गण्यन्ते, स राशिरष्टभिर्गुण्यते, एकषष्ट्या
१ अयनं - उत्तरायणं दक्षिणायनं च तस्य अतीतदिनानि अतीतदिवसाः तेषां गणः सर्वोत्कृष्टतः व्यशीतिशतं तच्चाष्टगुणं जातं चतुर्दश शतानि चतुः पश्यधिकानि, तत्र चैकपाचा भागे हृते लब्धानि चतुविंशत्यङ्गुलानि, तत्रापि द्वादशभिरकुलैः पादमिति द्वे पादे जाते, एतयोश्रोत्तरायणादौ दक्षिणायनादौ च 'पय'त्ति पदोः शुद्धिः प्रक्षेपश्च तत्र उत्तरायणप्रथमदिने चत्वारि पदानि आसन् ततस्तन्मध्यात् पदद्वयोत्सारणे कर्क संक्रान्तिदिने पदद्वयं संजातं, दक्षिणायने द्वे पदे अभूतां तन्मध्ये च द्वयोः प्रक्षिप्तयोर्मकरसंक्रान्तौ जातानि चत्वारि पदानि इदमुत्कृष्टदिनयोः पौरुषीमानं, मध्यमदिनेष्वपि स्वधिया भावनीयं । इदानीं व्यवहारतः पौरुषी प्रमाणकालप्रतिपादनायाह- (प्रत्यन्तरे सुगमो यथाथबोधको प्रमथोऽयमिति )