SearchBrowseAboutContactDonate
Page Preview
Page 215
Loading...
Download File
Download File
Page Text
________________ चाराई ऊर्चस्थानकं कायोत्सर्गः, स चोच्चारादीन कृत्या, आदिग्रहणात्प्रश्रवणं कृत्वा, ततश्च गुरुमूले आगत्य प्रतिक्रामतः, काम् ?-ईर्यापथिको प्रतिक्रामतो भवति ऊ स्थानम् ॥ |पक्खे उस्सासाई पुरतो अविणीय मग्गओ वाऊ । निक्खमपवेसवजण भावासपणे गिलाणाई ॥१५३।। (भा०) कायोत्सर्ग च कुर्वता आचार्यपक्षके-पक्षप्रदेशे न स्थातव्यं, यतो गुरुरुच्छासेनाभिहन्यते, नापि पुरतः स्थातव्यं, यतः पुरतोऽविनीतत्वमुपजायते गुरुमाच्छाद्य तिष्ठतो, नापि मार्गतो-गुरोः पृष्ठतो यतो गुरोर्वायुनिरोधेन ग्लानता भवति, वायुरपानेन निर्गच्छति, कथं पुनः स्थातव्यं , तत्र निष्क्रमप्रवेशस्थानं वर्जयित्वा कायोत्सर्ग करोति, "भावासन्ने ति य | उच्चारादिना पीडितः स च निर्गमे रुद्धे सम्ज्ञानिरोधं करोति, ततश्च ग्लानता भवति, अथ निर्गच्छति ततः कायोत्सर्गभङ्गः॥ भारे वेयणखमगुण्हमुच्छपरियावछिंदणे कलहो । अवाबाहे ठाणे सागारपमजणा जयणा ॥ १५४ ॥ (भा०)। ___ तथा च मार्गे कायोत्सर्गकरणे एते दोषाः, भिक्षामटित्वा कश्चिदायातः साधुः, स भारे सति यदि प्रतिपालयति ततो वेदना भवति, तथा क्षपकः कश्चिद्भक्तं गृहीत्वाऽऽयातस्तथाऽन्य उष्णसंतप्त आयातः, अनयोयोरपि प्रतिपालयतोः |सतोयथासङ्ख्यं मूर्छापरितापौ भवतः, क्षपकस्य मूर्छा उष्णतप्तस्य परितापः, अथैते कायोत्सर्ग छित्त्वा प्रविशन्ति ततः परस्परं कलहो भवति, तस्मादव्याबाधे स्थाने कायोत्सर्गः कर्त्तव्यः एतद्दोषभयात् । 'सागारपमजणा जयण'त्ति, यदा तु पुनः सागारिको भवति कायोत्सर्ग कुर्वतस्तदाऽप्रमार्जनमेव करोति, यतनया वा प्रमार्जयति, कथं ?, रजोहरणबाह्यनिषधया - SAMAISASAUCASOSANSA
SR No.600353
Book TitleOgh Niryukti
Original Sutra AuthorBhadrabahuswami
AuthorPurvacharya, Dronacharya,
PublisherAgamoday Samiti
Publication Year1919
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy