________________
BANANAISESSARIS
एवं चिन्तायां सत्यां सुबुद्ध्यभिधानेन मन्त्रिणाऽभिहितः-देव ! मा चिन्तां कुरु, भवदीय एव प्रधान आकरो, न शेषा आकरा इति, कुत एतदवसीयते ?, यदि भवत्संबन्धी लोहाकरो भवति तदानीं शेषाकरप्रवृत्तिः, इतरथा लोहोपकरणाभावान प्रवृत्तिरिति, ततोऽनिर्वाहं कारयतु कतिचिद्दिनानि यावदुपक्षयं प्रतिपद्यते तेषूपकरणजातं, ततः सुमहार्घमपि ते लोह ग्रहीष्यन्तीत्यत आह-'पडिसेह' इत्यादि, प्रतिषेधो-वारणा तं प्रतिषेधं करोत्यसौ लोहं प्रतीतमेव तस्य लोहस्य, तुशब्दो विशेषणे, न केवलमनिर्वाहं करोत्यपूर्वोत्पादनिरोधं च, ततश्चैवं कृते शेषाकरेषूपस्कराः क्षयं प्रतिपन्नाः, ततस्ते वज्रादिभिग्रहणं कुर्वन्ति इतरे वज्राकरिकादयः, चशब्दान्न केवलं वज्रादिभिर्हस्त्यादिभिश्च, अत्र कथानकं स्पष्टत्वान्न लिखितम् , अयं दृष्टान्तः, साम्प्रतं दार्शन्तिकयोंजना क्रियते-यथाऽसौ लोहाकर आधारभूतः शेषाकराणां, तत्प्रवृत्तौ शेषाणामपि प्रवृत्तेः, एवमत्रापि चरणकरणानुयोगे सति शेषानुयोगसद्भावः, तथाहि-चरणे व्यवस्थितः शेषानुयोगग्रहणे समर्थो भवति नान्यथेति ॥ अस्यार्थस्य प्रतिपादनार्थ गाथासूत्रमाह
एवं चरणमि ठिओ करेइ गहणं विहीइ इयरेसिं । एएण कारणेणं हवइ उचरणं महडीअं ॥१०॥ (भा०) PI एवं'मित्युपनयग्रन्थः 'चरणमित्ति चर्यत इति चरणं तस्मिन् व्यवस्थितः करोति विधिना ग्रहणमितरेषाम् , इतरेषामिति
द्रव्यानुयोगादीनां, तदनेन कारणेन भवति चरणं महर्द्धिकम् । तुशब्दादन्येषां च गुणानां समर्थो भवतीति ॥ अधुना 'अल्पाक्षरां महार्था मिति यदुक्तं तव्याख्यानायाह
24ORASIASSAPAROSA