________________
श्रीओघद्रोणीया वृत्तिः
नियुक्तिः
गमहत्ता भा. ५-१०
SAUSISUSTUSKAUHASSAUSIOS
पुनरागमादेव केवलादिति । आह-दर्शनशुद्ध्यैव किम् ?, तदाह-'दर्शनशुद्धस्य' दर्शनं शुद्धं यस्यासौ दर्शनशुद्धस्तस्य 'चरणं चारित्रं भवतीत्यर्थः, तुशब्दो विशेषणे, चारित्रशुद्धस्य दर्शनमिति ॥ अथवा प्रकारान्तरेण चरणकरणानुयोगस्यैव प्राधान्य प्रतिपाद्यते आदिभूतस्यापीति, तच्च दृष्टान्तबलेनाचलं भवति नान्यथेत्यतो दृष्टान्तद्वारेणाहजह रण्णो विसएसुं वयरे कणगे अ रयय लोहे अ।चत्तारि आगरा खलु चउण्ह पुत्ताण ते दिन्ना ॥८॥(भा०) | 'यथे'त्युदाहारणोपन्यासे राज्ञो 'विषयेषु' जनपदेषु 'वज्र' इति वज्राकरो भवति, वज्राणि-रत्नानि तेषामाकरः-खानिवज्राकरः । 'चिन्ता लोहागरिए'त्ति इत्यतः सिंहावलोकितन्यायेनाकरग्रहणं संबध्यते, एतेन कारणेन 'होति उत्ति इत्यस्माद्भवति क्रिया सर्वत्र मीलनीयेति । 'कनक' सुवर्ण तस्याकरो भवति द्वितीयः, 'रजतं' रूप्यं तद्विषयस्तृतीय आकरो भवति, चशब्दः समुच्चये, अनेकभेदभिन्नं रूप्याकरं समुच्चिनोति, 'लोहे यत्ति लोहमयस्तस्मिन् लोहे-लोहविषयश्चतुर्थ आकरो भवति, चशब्दो मृदुकठिनमध्यलोहभेदसमुच्चायकः, 'चत्वारः' इति सङ्ख्याः, आक्रियन्त एतेष्वित्याकराः, तथा च मर्यादथाऽभिविधिना वा क्रियन्ते वज्रादीनि तेष्विति, खलुशब्दो विशेषणे, किं विशिनष्टि ?-सविषयाः सहस्त्यादयश्चते पुत्रेभ्यो दत्ताः, चतुर्णा 'पुत्राणां' सुतानां 'ते' इत्याकरा 'दत्ताः' विभक्ता इत्यर्थः ॥ अधुना प्रदानोत्तरकालं यत्तेषां संजातं तदुच्यतेचिंता लोहागरिए पडिसेहं सो उ कुणइ लोहस्स। वयराईहि अगहणं करिति लोहस्स तिन्नियरे ॥९॥(भा०)
लोहाकरोऽस्यास्तीति लोहाकरिकस्तस्मिन् लोहाकरिके चिन्ता भवति, राज्ञा परिभूतोऽहं येन ममाप्रधान आकरो दत्तः,
Borror
॥९॥