SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ रिकानां स्तेनशङ्कोपजायते, यदुत किमयं चौरः ? ' उभामओ' पारदारिकस्ततस्तदाशङ्कोपजायते, अतस्तत्परेण - संछन्नद्वाह्यतो नेदं प्रमार्जनादि कर्त्तव्यमिति । एवं प्रमाणयुक्तायां वसतौ वसतां विधिरुक्तः । यदा तु पुनः - नस्थि उ पमाणजुत्ता खुड्डलिया चेव वसति जयणाए । पुरहत्थं पच्छ पाए पमज्ज जयणाए निग्गमणं ॥ २३२ ॥ यदा प्रमाणयुक्ता वसतिर्नास्ति तदा क्षुल्लिकायामेव वसतौ वसन्ति यतनया, का चासौ यतना ? - 'पुरहत्थ पच्छपाए ' 'पुरतः ' अग्रतो हस्तेन परामृशति पश्चात्पादौ प्रमृज्य न्यस्यति, ततश्चैवं यतनया बाह्यतो निर्गच्छन्ति । एवं तावत्कायिकाद्यर्थ गमनागमने विधिरुक्तः, इदानीं स्वपनविधिं प्रतिपादयन्नाह - उस्सीसभायणाएं मज्झे विसमे अहाकडा उवरिं । ओवग्गहिओ दोरो तेण य वेहासिलंबणया ॥ २३२ ॥ उपशीर्षकाणां मध्ये भाजनानि - पात्रकाणि क्रियन्ते । स्थापना चेयम् - 8 | 'विसमे 'त्ति विषमा भूः गर्त्तोपेता भवति, ततश्च तस्यां गर्त्तायां पात्रकाणि पुञ्जीक्रियन्ते । 'अहागडा उवरिं'ति प्राशुकानि - अल्पपरिकर्माणि च यानि तान्येतेषां पात्रकाणामुपरि पुञ्जीक्रियन्ते, माङ्गलिकत्वात्तेषाम्, अथातिसङ्कटत्वाद्वसतेर्भूमौ नास्ति स्थानं पात्रकाणां ततश्च 'उवग्गहितो दोरो' औपग्रहिको यो दवरको यवनिकार्थं गृहीतः उपग्गहितो- गच्छसाहारणो तेन 'विहायसि' आकाशे 'लंबणय'त्ति | तेन दवरकेन लम्ब्यंते-कीलिकादौ क्रियन्ते । खुड्डलियाए असई विच्छिन्नाए उ मालणा भूमी । विलधम्मोचारभडा साहरणेगंतकडपोती ॥ २३३ ॥ क्षुल्लिकायां वसतेरभावे 'विच्छिन्नाए उन्ति विस्तीर्णायां वसतौ स्थातव्यं, तत्र च को विधिरित्यत अह - 'मालणा भूमी'
SR No.600353
Book TitleOgh Niryukti
Original Sutra AuthorBhadrabahuswami
AuthorPurvacharya, Dronacharya,
PublisherAgamoday Samiti
Publication Year1919
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy