SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ S ISESEISASSASSAS मष्टाङ्गुलानि रुणद्धि, पात्रकाविंशत्यङ्गुलानि मुक्त्वा परतोऽन्यः साधुः स्वपिति । एतच्च कुतो निश्चीयते ? यदुत-पात्रकात्परतो विंशत्यङ्गुलान्यतीत्य साधुः स्वपिति, यत उक्तम्-'दो हत्थे य अबाहा नियमा साहुस्स साहूओ' । स्थापना चेयम्साहू सरीरेणं हत्थं रुधइ २४, साहुस्स सरीरप्पमाणं, संथारयस्स पत्तयाणं च अंतरं वीसंगुला २० अहहिं अंगुलेहिं पत्तया ठइंति ८, पत्तस्स बितियसाहुस्स य अंतरं वीसंगुलाई २०, एवं एते सत्वेऽवि तिण्णि हत्था, एसो बितिओ साहू । २४ ।। २०।८।२० । एवं सवत्थ । अत्र चोर्णामयः संस्तारकः अष्टाविंशत्यङ्गुलप्रमाण एव बाहुल्येन द्रष्टव्यः, किन्तु साधुना शरीरेण चतुर्विंशत्यकुलानि रुद्धानि, अन्यानि ऊर्णामयसंस्तारकसंबन्धीनि यानि चत्वार्यङ्गलानि तैः सह यानि विंशत्यमुलानि, तत्परतः पात्रकाणि भवन्ति । अत्र हस्तद्वयमबाधा साधुशरीराद्यावदन्यसाधुशरीरं तावद्रष्टव्यम् । “मज्जाय" | इत्येव्याख्यातमेव । भुत्ताभुत्तसमुत्था भंडणदोसा य वजिआ एवं । सीसंतेण व कुटुंतु हत्थं मोत्तुण ठायंति ॥ २२८॥ द्विहस्तान्तरालेन मुच्यमानेन 'भुत्ताभुत्तसमुत्था' इति यो भुक्तभोगः 'अभुक्त' इति यः कुमार एवं प्रबजितः, तत्र भुक्तभोगस्य आसन्नस्य स्वपतोऽन्यसाधुसंस्पर्शादन्यत्पूर्वक्रीडितानुस्मरणं भवति, यदुतास्मद्योषितोऽप्येवंविधः स्पर्श इति, अभुक्तभोगस्याप्यन्यसाधुसंस्पर्शेन सुकुमारेण कौतुकं स्त्रियं प्रति भवति, अयमभिप्रायः-तस्याः सुकुमारतरः स्पर्श इति, ततश्च द्विहस्ताबाधायां स्वपतामेते दोषाः परिहृता भवन्ति । तथा भंडणं-कलहः परस्परं हस्तस्पर्शजनित आसन्नशयने, ते च दोषा एवं वर्जिता भवन्ति, सीसंतेण व कुटुं तु हत्थं मोत्तूण ठायंतित्ति शिरो यतो यत्र कुड्यं तत्र हस्तमात्रं मुक्त्वा - बो०१६
SR No.600353
Book TitleOgh Niryukti
Original Sutra AuthorBhadrabahuswami
AuthorPurvacharya, Dronacharya,
PublisherAgamoday Samiti
Publication Year1919
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy