________________
डाय प्रयच्छन्ति, यदुत त्वयाऽमुकत्र देशे आगन्तव्यमिति । इदानीमस्या एव गाथाया भाष्यकृत् कांश्चिदवयवान् व्याख्या नयति, तंत्र प्रथमावयवं व्याख्यानयन्नाह -
पडिले चिअ बेटियाउ काऊण पोरिसि करिंति । चरिमा उग्गाहेउं सोचा मज्झण्हि वच्चति ॥ ७९ ॥ (भा० ) I ते हि साधवः प्रभातमात्र एव प्रतिलेखयित्वा उपधिकां पुनश्च वेण्टलिकां कुर्वन्ति-संवर्त्तयन्तीत्यर्थः, ततश्चानिक्षिप्तोपधय एव 'पोरिसिं करेंति" सूत्रपौरुषीं कुर्वन्ति, "चरिमा उग्गाहेउ' त्ति चरिमवेलायां पादोनपौरुष्यां पात्रकाणि उन्द्राह्य - संयन्त्र - यित्वा पुनश्चानिक्षितैरेव पात्रकैः 'सोच्च'त्ति श्रुत्वा अर्थपौरुषीं कृत्वेत्यर्थः, ततो मध्याह्ने व्रजन्तीति । ते च शोभन एवा - हि व्रजन्तीति । अत एवाह
.
तिहिकरणंमि पसत्थे नक्खत्ते अहिवइस्स अणुकूले । घेत्तुण निंति वसभा अक्खे सउणे परिक्खता ||८०||(भा०)
'तिथौ ' प्रशस्तायां 'करणे' च बवादिके प्रशस्ते नक्षत्रे वा 'अधिपतेः' आचार्यस्य अनुकूले सति गृहीत्वा अक्षान् प्राग् वृषभा निर्गच्छन्ति, किं कुर्वाणा अत आह- 'सउणे परिक्खंता' 'शकुनान्' प्रशस्तान् परीक्षमाणाः सन्तों वृषभा निर्गच्छ - | न्तीति पश्चादाचार्याः । किं पुनः कारणं पश्चादाचार्या निर्गच्छन्ति ?, तत्र कारणमाह
वासरस य आगमणे अवसउणे पट्टिआ निवत्तंति । ओभावणा पवयणे आयरिआ मग्गओ तम्हा ॥८१॥ ( भा० ) वर्षणं वर्षस्तस्यागमनं कदाचिद्भवति, अपशकुने वा दृष्टे प्रस्थिता अपि निवर्त्तन्ते वृषभाः, यदि पुनराचार्या एव प्राग् निर्गच्छन्ति ततोऽपशकुनदर्शने वृष्टौ च निवर्त्तमानस्य सतः किं भवति ?, अत आह-'ओहावणा पवयणे' प्रवचने हीलना