SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ तस्यामेव वसतावनुज्ञातो वासः। शेषक्षेत्राभावे सति तत्र च नियतपरिमितायां वसतौ यदि प्राघूर्णका आगच्छन्ति ततः * को विधिरित्यत आह सक्कारो सम्माणो भिक्खग्गहणं च होह पाहुणए । जइ जाणउ वसइ तहिं साहम्मिअवच्छलाऽऽणाई ॥१५॥ ___ 'सत्कारः' वन्दनाभ्युत्थानादिकः 'सन्मानः पादप्रक्षालनादिकः 'भिक्षाग्रहणं' भिक्षानयनं च, एतत्प्राघूर्णके आगते सति क्रियते । पुनश्च तस्य प्राघूर्णकस्य वसतिस्वरूपं कथ्यते यथा-परिमितरेवैषा लब्धा, नान्यस्यावकाशः, ततश्च त्वयाऽन्यत्र वसितव्यम् । 'यदि जाणउ वसइ तहिति एवमसावुक्तो ज्ञोऽपि सन्-यदि जानन्नपि तत्र वसति ततः को दोषोऽत आह'साहम्मिअवच्छलाऽऽणाई' साधर्मिकवात्सल्यं न कृतं भवति, यतोऽसौ सय्यातरो रुष्टस्तानपि निर्धाटयति, आज्ञाभङ्गश्च कृतः-आज्ञालोपश्चैवं कृतो भवति सूत्रस्य, आदिशब्दात्तद्रव्यान्यद्रव्यव्यच्छेदः । इदानीं ते क्षेत्रप्रत्युपेक्षका आचार्यसमीपमागच्छन्तः किं कुर्वन्तीत्यत आहजइ तिन्नि सगमणं एसु न एसुत्तिदोसुवि अ दोसा ।अण्णपहेणगुणता निययावासोऽहमा गुरुणो॥१५६ ॥ __ यदि ते क्षेत्रप्रत्युपेक्षकास्त्रय एव ततः सर्व एव गमनं कुर्वन्ति, अथ सप्त पञ्च वा ततः सङ्घाटकमेकं मुक्त्वा ब्रजन्ति । दू'एसु न एसुत्ति शय्यातरेण पृष्टाः सन्तस्ते नैवं वदन्ति-एष्यामो न वा एष्याम इति, यत एवं भणने दोषः, किं कारणं ?, यदैवं भणन्ति यदुत आगमिष्यामः, ततश्च शोभनतरे क्षेत्रे लब्धे सति नागच्छन्ति ततश्चानृतदोषः, अथ भणन्ति-नागमि
SR No.600353
Book TitleOgh Niryukti
Original Sutra AuthorBhadrabahuswami
AuthorPurvacharya, Dronacharya,
PublisherAgamoday Samiti
Publication Year1919
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy