________________
ग्लानस्तदेषामर्थाय भवति, ततश्च तत्प्रधानम् । एवं तेऽटित्वा 'भत्त' ति उदरपूरणमेकस्यानयन्ति, कथम् ? - 'एक्केकगसंजुत्तं' एकः साधुरेकेन संयुक्तो यस्मिन्नानयने तदेकैकसंयुक्तमानयन्ति, 'एक्क मेक्कस्स'त्ति परस्परस्य आनयन्ति एदुक्तं भवतिद्वौ साधू अटतः एक आस्ते प्रत्युषसि पुनर्द्वितीयवेलायां तयोर्द्वयोर्मध्यादेक आस्ते अपरः प्रयाति प्रथमव्यवस्थितं गृहीत्वा, तृतीयवेलायां च यो द्वितीयवेलायां रक्षपालः स्थितः स प्रथमस्थितरक्षपालेन सह व्रजति, इतरस्तु येन वाराद्वयमटितं स तिष्ठति, एवमेव एषां त्रयाणामेकैकस्य सङ्घाटककल्पनया पर्यटनं द्वयोर्योजनीयम् । एवम् -
ओसह सज्जाणि अ कालं च कुले य दाणमाईणि । सग्गामे पेहित्ता पेहंति ततो परग्गामे ॥ १४९ ॥ एवं औषधं - हरितक्यादि, भेषजं पेयादि, एतच्च प्रार्थनाद्वारेण प्रत्युपेक्षते, 'कालं च'त्ति कालं प्रत्युपेक्षते, 'कुले य दाणमाईणि' कुलानि च दानश्राद्धकादीनि, “दाणे अहिगमसद्धे" एवमादि एतानि कुलानि प्रत्युपेक्षते । एतानि च स्वग्रामे 'पेहेत्ता' प्रत्युपेक्ष्य ततः परग्रामे प्रत्युपेक्षन्ते ।
चोयगवणं दीहं पणीयगहणे य नणु भवे दोसा । जुज्जइ तं गुरुपाहुणगिलाणगट्ठा न दप्पां ॥ १५० ॥
चोदकवचनं, किमित्यत आह- 'दीहं' दीर्घ भिक्षाटनं कुर्वन्ति ते 'पणीयगहणे' त्ति स्नेहवद्रव्यग्रहणे च ननु भवन्ति दोषाः । आचार्यस्त्वाह - 'जुज्जति तं' युज्यते तत्सर्व दीर्घ भिक्षाटनं यत् प्रणीतग्रहणं च यतः 'गुरुपाहुणगिलाणगडा' गुरुप्राघूर्णकग्लानार्थमसौ प्रत्युपेक्षते न दर्पार्थ, न चात्मार्थं प्रणीतादेर्ग्रहणमिति ।
अइ पुण खद्धपणीए अकारणे एक्कसिंपि गिव्हेज्जा । तहिअं दोसा तेण उ अकारणे खद्धनिद्धा ॥ १५१ ॥