SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ CANORAN 4 वुहोऽणुकंपणिज्जो चिरेण न य मग्गथंडिले पेहे । अहवावि बालबुड्डा असमत्था गोयरतिअस्स ।। ६९ ॥(भा०) वृद्धोऽनुकम्पनीयस्ततश्चासावेव लभते, नान्यः, तथा 'चिरेणं ति 'चिरेण' प्रभूतेन कालेन गमनं आगमनं च करोति, न| च 'मार्ग' पन्थानं प्रत्युपेक्षितुं समर्थः नापि स्थण्डिलानि प्रत्युपेक्षितुं समर्थः, इदानीं तु द्वयोरपि बालवृद्धयोस्तुल्यदोषोदा. वनार्थमाह-अथवा बाला वृद्धाश्च 'असमर्थाः' अशक्काः 'गोचरत्रिकस्य' त्रिकालभिक्षाटनस्येत्यर्थः । दारं । अगीतार्थेऽपि | |प्रेष्यमाणे एते दोषाः पंथं च मासवासं उवस्सयं एचिरेण कालेणं । एहामोत्ति न याणइ चउबिहमणुण्ण ठाणं च ॥ ७० ॥ (भा०) I 'पन्थान' मार्ग न जानाति वक्ष्यमाणं 'मास'ति मासकल्पं न जानाति 'वासंति वर्षाकल्पं न जानाति, तथा 'उपाश्रय वसतिं परीक्षितुं न जानाति, तथा शय्यातरेण पृष्टः-कदा आगमिष्यथ ?, ततश्च ब्रधीति-'एच्चिरेण एहामो'त्ति इयता कालेन-अर्द्धमासादिना एष्याम इत्येवं वदतो यो दोषः अविधिभाषणजनितस्तं न जानाति, यतः कदाचिदन्या दिक् शोभनतरा शुद्धा भवति तत्र गम्यते, अतो नैवं वक्तव्यम्-एतावता कालेनैष्यामः । तथा 'चउबिह मणुण्ण'त्ति तत्रोपाश्रये शय्यातरश्चतुर्विधमनुज्ञाप्यते-द्रव्यतः क्षेत्रतः कालतो भावतश्चेति, तत्र द्रव्यतस्तृणडगलादि अनुज्ञाप्यते, क्षेत्रतः पात्रकप्रक्षालनभूमिरनुज्ञाप्यते, कालतो दिवा रात्री वा निस्सरणमनुज्ञाप्यते, भावतो ग्लानस्य कस्यचिद्भावप्रणिधानार्थ कायिका|सज्ञादि निरूप्यते, एतां चतुर्विधामनुज्ञामनुज्ञापयितुं न जानाति । 'ठाणं चत्ति वसतिः कीदृशे प्रशस्ते स्थाने भवतीत्येतन्न जानाति । द्वारं । योगिनमपि न प्रेषयेत् , कस्मात् ?
SR No.600353
Book TitleOgh Niryukti
Original Sutra AuthorBhadrabahuswami
AuthorPurvacharya, Dronacharya,
PublisherAgamoday Samiti
Publication Year1919
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy