________________
श्रीओघनिर्युक्तिः द्रोणीया वृत्तिः
॥ ५८ ॥
'झाण'त्ति अथ तद्धर्मकथायाः प्रतिघातं कर्त्तुं न शक्नोति ततो ध्यानं करोति, ध्यायन्नास्ते धर्मध्यानं, अथ तथाऽपि धर्मकथां करोति ततः 'अज्झयण'त्ति धर्मकथाव्याघातार्थमध्ययनं करोति, अथ तथाऽपि न तिष्ठति ' ततः कर्णौ स्थगयति धर्मकथाव्याघातार्थमिति । अथवा 'सुवणाहरणा यत्ति सुप्तः सन् आहरणा - घोरयति घोरणं करोति महता शब्देन, सोऽपि निर्विण्णः सन् उपसंहरति धर्मकथामिति । उक्तं वसतिद्वारं, षष्ठे द्वारे स्थानस्थितो भवति इदमुक्तं, स च एभिः कारणैःअसिवे ओमोरिए रायदुट्टे भए नदुट्ठाणे । फिडिअगिलाणे कालगवासे ठाणहिओ होइ ॥ १११ ॥ 'असिवे' देवताजनितोपद्रवे सति तस्मिन् यत्राभिप्रेतं गमनं कदाचिदपान्तराले वा भवति ततश्चानेन कारणेन स्थान - स्थितो भवति, 'ओमोयरिए' त्ति दुर्भिक्षं विवक्षिते देशे जातमपान्तराले वा ततश्च स्थानस्थितो भवति, 'रायदुट्ठेति राजद्विष्टं कदाचित्तत्र भवत्यभिप्रेतदेशे अन्तराले वा तेनैव कारणेन स्थानस्थितो भवति, 'भए'त्ति म्लेच्छादिभयं विवक्षिते देशे अपान्तराले वा तेन कारणेन स्थानस्थितो भवति, 'नइ'त्ति कदाचिन्नदी विवक्षिते देशेऽपान्तराले वा भवति तेन प्रतिबन्धेन स्थानस्थितो भवति ( 'उट्ठिए'त्ति कदाचित्तत्रापान्तराले वा उद्वसितं जातं तेन कारणेन स्थानस्थितो भवति ) 'फिडि - यति कदाचिदसावाचार्यः तस्मात् क्षेत्रात् च्युतः - अपगतो भवति ततश्च तावदास्ते यावद्वार्त्ता भवति, अनेन कारणेन स्थानस्थितो भवति । 'गिलाणे 'त्ति ग्लानः कदाचिन्मनाम् भवति स्वयं कदाचिदन्यः कश्चिद् ग्लानो भवति तेन प्रतिबन्धेन स्थानस्थितो भवति । 'कालगय'त्ति कदाचिदसावाचार्यः कालगतो- मृतो वा भवति, यावत्तन्निश्चयो भवति तावत्स्थान
स्थानविधिः नि. १०९११० स्थानकारणानि
नि. १११
॥ ५८ ॥