________________
प्रथमतो जघन्या विशोधिः सर्वस्तोका वाच्या । सापि च यथाप्रवृत्तकरण चरमसमयभाविन उत्कृष्टाद्विशोधिस्थानादनन्तगणा। नती प्रथमसमय एवोत्कृष्टा विशोधिरनन्तगुणा । ततोऽपि द्वितीयसमये जघन्या विशोधिरनन्तगुणा । ततोऽपि तस्मिन्नेव द्वितीयसमये उत्कृष्टा विशोधिरनन्तगणा । ततोऽपि तृतीयसमये जघन्या विशोधिरनन्तगुणा । ततोऽपि तस्मिन्नेव तृतीयसमये उत्कृष्ट विशोधित |न्तगुणा । एवं प्रतिसमयं तावद्वाच्यं यावच्चरमसमये उत्कृष्टा विशोधिरिति ॥१०-११॥
(उ०)-इह दो परुषो यगपत्करणप्रतिपको बुद्धावारोप्येते, एकः सर्वजघन्यया श्रेण्या प्रतिपन्नोऽपरस्तु सर्वोत्कृष्टया विशोधिश्रेण्या। जब प्रथमम्य पमषम्य प्रथमसमये मन्द्रा सर्वजघन्या विशोधिः सर्वस्तोका, ततो द्वितीयसमये जघन्या विशोधिग्नन्तगणा . बद्धविशोधिस्थानयुक्तेत्यर्थः । ततोऽपि तृतीयसमये जघन्या विशोघिरनन्तगुणा, एवं तावद्वाच्यं यावद्यथाप्रवृत्तकरणस्य संख्येयो | भागो गतो भवति । ततः प्रथमसमये द्वितीयस्य जीवस्योत्कृष्टं विशोधिस्थानमनन्तगुणं वाच्यं । ततोऽपि जघन्यस्थानाद्यतः पश्चा. द्वलितं तत उपरितनी जघन्या विशोधिरनन्तगुणा । ततो द्वितीये समये उत्कृष्टा विशोधिरनन्तगुणा । तत उपरि जघन्या विशोधिरनन्तगुणा । एवमुपर्यधश्चैकैकं विशोधिस्थान द्वयोर्जीवयोरनन्तगुणतया तावद्वाच्यं यावच्चरमसमये जघन्या विशोधिः । तत आचर. माच्चरममभिव्याप्य यानि चरमसंख्येयभागगतान्यनुक्तानि शेषाण्युत्कृष्टानि विशोधिस्थानानि तानि निरन्तरमनन्तगुणानि वक्तव्यानि। | तदेवं समाप्तं यथाप्रवृत्तकरणम् । अस्य च पूर्वप्रवृत्तमिति द्वितीयं नाम, शेषकरणाभ्यां पूर्व प्रवृत्तत्वात् । अत्र च स्थितिघातो रसधातो | गणश्रेणिर्गणसंक्रमो वा न प्रवर्तते, तद्योग्यविशुध्यभावात् , केवलमुक्तरूपा विशोधिरेवानन्तगुणा प्रवर्तते । यानि चाप्रशस्तानि कर्मा- 13 ण्यत्र स्थितो बध्नाति तेषामनुभागं द्विस्थानकं बध्नाति, यानि च शुभानि बध्नाति तेषामनुभाग चतु:स्थानकम् । स्थितिबन्धेऽपि च 10
OGGOOK