________________
कर्मप्रकृतिः 11911
| पढमसमयउक्कोससोही अनंतगुणा । एवं जहष्णुक्कोसो अप्पप्पणो नेयव्वो जाव बितियकरणस्स चरिमसमतोत्ति । (मलय०)—'मन्दविसोही’इत्यादि । इह कल्पनया द्वौ पुरुषौ युगपत्करणप्रतिपन्नौ विवक्ष्येते । तत्रैकः सर्वजघन्या श्रेण्या प्रतिपन्नः, अपरस्तु सर्वोत्कृष्टया विशोधिश्रेण्या । तत्र प्रथमस्य जीवस्य प्रथमसमये मन्दा सर्वजघन्या विशोधिः सर्वस्तोका, ततो द्वितीयसमये जघन्या विशोधिरनन्तगुणा, ततोऽपि तृतीयसमये जघन्या विशोधिरनन्तगुणा । एवं तावद्वाच्यं यावद्यथाप्रवृत्तकरणस्य संख्येयो भागो गतो भवति । ततः प्रथमसमये द्वितीयस्य जीवस्योत्कृष्टं विशोधिस्थानमनन्तगुणं वक्तव्यम् । ततोऽपि यतो जघन्यस्थानान्निवृतस्तस्योपरितनी जघन्या विशोधिरनन्तगुणा । ततोऽपि द्वितीये समये उत्कृष्टा विशोधिरनन्तगुणा । तत उपरि जघन्या विशोधिरन| न्तगुणा । एवमुपर्यधश्चैकैकं विशोधिस्थानमनन्तगुणतया द्वयोर्जीवयोस्तावन्नेयं यावच्चरमसमये जघन्या विशोधिः । तत आ चरमात्चरममभिव्याप्य यान्यनुक्तानि उत्कृष्टानि विशोधिस्थानानि तानि क्रमेण निरन्तरमनन्तगुणानि वक्तव्यानि । तदेवं समाप्तं यथाप्रवृत्तकरणम् । अस्य च यथाप्रवृत्तकरणस्य पूर्वप्रवृत्तमिति द्वितीयं नाम, शेषकरणाभ्यां पूर्व-प्रथमं प्रवृत्तं पूर्वप्रवृत्तमिति । अस्मिंश्च यथामवृत्तकरणे स्थितिघातो रसघातो गुणश्रेणिर्वा न प्रवर्तते, केवलमुक्तरूपा विशोधिरनन्तगुणा । यानि चाप्रशस्तानि कर्माण्यत्र स्थितो बध्नाति तेषामनुभागं द्विस्थानकं बध्नाति, यानि च शुभानि तेषां चतुःस्थानकम् । स्थितिबन्धेऽपि च पूर्णे पूर्ण सत्यन्यं स्थितिचन्धं पल्योपमसंख्येयभागन्युनं बध्नाति । सम्प्रत्य पूर्वकरणमभिधीयते - 'बिइयस्से' त्यादि । द्वितीयस्य करणस्यापूर्वकरणाख्यस्य यो द्वितीयः समयस्तत्र जघन्यमपि विशोधिस्थानमनन्तरोत्कृष्टात् - प्रथमसमयभाविन उत्कृष्टात् विशोधिस्थानात् अनन्तगुणं वक्तव्यम् । एतदुक्तं भवति - नेह यथाप्रवृत्तकरणे इव प्रथमतो निरन्तरं जघन्यानि विशोधिस्थानान्यनन्तगुणतया वक्तव्यानि, किन्तु प्रथमसमये
aa%
उपशमना
करणम्
उपशमस म्यक्त्वा
धिकारः
11611