________________
PROCE
उपशमनाकरणम्
| शेषं तदेव । तथा बध्यमानप्रकृतीनां स्थिति बध्नाति अन्तःसागरोपमकोटीकोटीप्रमाणामेव नाधिकाम् । योगवशाच प्रदेशाग्रमुत्कृष्टं | यकृतिः 13मध्यम जघन्यं च बध्नाति । तथाहि-जघन्ये योगे वर्तमानो जघन्य प्रदेशाग्रं बध्नाति, मध्यमे मध्यम, उत्कृष्ट तूत्कृष्टमिति । | ॥४॥
स्थितिवन्धेऽपि च पूर्णे सत्यन्य स्थितिबन्धं प्राक्तनस्थितिबन्धापेक्षया पल्योपमसंख्येयभागन्यूनं करोति । तस्मिन्नपि च परिपूर्ण सत्यन्यं स्थितिबन्धं प्राक्तनस्थितिबन्धापेक्षया पल्योपमसंख्येयभागन्यूनं करोति । एवमन्यमन्य स्थितिवन्धं पूर्वपूर्वापेक्षया पल्योपम-| संख्येयभागन्युनं करोति, अशुभानां च प्रकृतीनां बध्यमानानामनुभागं द्विस्थानकं बध्नाति, तमपि प्रतिसमयमनन्तगुणहीनम् । शुभानां च चतु:स्थानकं बध्नाति, तमपि प्रतिसमयमनन्तगुणवृद्धम् । एवमसौ कुर्वन् किं करोतीत्यत आह-'करण'इत्यादि । 'करणं'यथाप्रवृत्तं करोति । ततोऽपूर्वकरणम्, ततोऽपि अनिवृत्तिकरणम् । करणमिति परिणामविशेषः, 'करण परिणामोऽत्र' इतिवचनमामाण्यात । एतानि च त्रीण्यपि करणानि प्रत्येकमान्तमहूिर्तिकानि । सर्वेषामपि करणानां कालोऽन्तमहर्तप्रमाणः। ततोऽनेन क्रमेण चतुर्थीमुपशान्ताद्धां लभते । सापि चान्तर्मुहूर्तिकी ॥३-४-५-६-७-८॥
(उ०)-इह सर्वोपशमना मोहस्यैव, शेषाणां तु कर्मणां देशोपशमना भवति । तत्र तस्य मोहनीयस्य सर्वोपशमनाक्रियायोग्यः पञ्चेन्द्रियः संज्ञी सर्वाभिः पर्याप्तिभिः पर्याप्त इत्येवं पञ्चेन्द्रियत्वसंज्ञित्वपर्याप्तत्वरूपेण लब्धित्रिकेण युक्तः, यद्वोपशमलब्ध्युपदेशश्रवणलब्धिकरणत्रयहेतुप्रकृष्टयोगलब्धित्रिकयुक्तः । पूर्वमपि करणकालादन्तमुहूर्त कालं यावत्पतिसमयमनन्तगुणवृद्धविशुद्ध्या विशुध्य| मानो ग्रन्थिकसचानामभव्यसिद्धिकानां शोधिमतिक्रम्य वतमानस्ततोऽनन्तगुणविशुद्ध इत्यर्थः । तथाऽन्यतरस्मिन्मत्यज्ञाने श्रुताज्ञाने विभङ्गज्ञाने वा साकारे साकारोपयोगे, योगे चान्यतरस्मिन् मनोयोगे वाग्योगे काययोगे वा वर्तमानः, तथा विशुद्धलेश्वासु विशुद्धानां |
॥४॥