________________
|| रूपाभिस्तिमृभिलब्धिभियुक्तः, अथवा उपशमलब्ध्युपदेशश्रवणलब्धिकरणत्रयहेतुप्रकृष्टयोगलब्धिरूपलब्धिविकयुक्तः । करणकाला| पूर्वमपि अन्तर्मुहूर्तकालं यावत् प्रतिसमयमनन्तगुणवृद्ध्या विशुद्ध्या 'विशुद्धयमानः'-अवदायमानचित्तसन्ततिः 'ग्रन्थिकसचानाम'अभव्यसिद्धिकानां या विशोधिस्तामतिक्रम्य वर्तमानः ततोऽनन्तगुणविशुद्ध इत्यर्थः । तथाऽन्यतरस्मिन्मतिश्रुताज्ञानविभङ्गज्ञानानामन्यतमस्मिन् 'साकारे'-माकारोपयोगे, योगे चान्यतमस्मिन्मनोयोगे वाग्योगे काययोगे वा वर्तमानः, तिसृणां विशुद्धानां लेख्यानामन्यतमस्यां लेश्यायां वर्तमानो, जघन्येन तेजोलेइयायां, मध्यमपरिणामेन पद्मलेश्यायां, उत्कृष्टपरिणामेन शुक्लरेश्यायाम्। तथाऽऽयुयानां सप्तानां कर्मणां स्थितिमन्तःसागरोपमकोटी कोटीप्रमाणां कृत्वा अशुभानां कर्मगामनुभागं चतुःस्थानकं सन्तं द्विस्थानकं करोति, | शुभानां च कर्मणां द्विस्थानकं सन्तं चतुःस्थानकं करोति । तथा ध्रुवप्रकृती:-पञ्चविधज्ञानावरणनवविधदर्शनावरणमिथ्यात्वषोडशकषायभयजुगुप्सातैजसकार्मणवर्णगन्धरसस्पर्शागुरुलघूपघातनिर्माणपश्चविधान्तरायरूपाः सप्तचत्वारिंशत्संख्या बध्नन् परावर्तमानाः स्वस्वभवप्रायोग्याः प्रकृतीः शुभा एव बध्नाति, ता अप्यायुर्वर्जाः । अतीव विशुद्धपरिणामो हि नायुर्वन्धमारभते इति कृत्वा तद्वर्जनम् । | भवप्रायोग्य इतिवचनाच्चैतदवगन्तव्यं-यदुत तिर्यङ् मनुष्यो वा प्रथमसम्यक्त्वमुत्पादयन् देवगतिप्रायोग्याः शुभाः प्रकृती वगतिदेवानुपूर्वीपश्चेन्द्रियजातिवैक्रियशरीरवैक्रियाङ्गोपाङ्गसमचतुरस्रसंस्थानपराघातोच्छ्वासप्रशस्तविहायोगतित्रसादिदशकसातवेदनीयोच्चगोत्ररू|पा एकविंशतिसंख्या बध्नाति । देवो नैरयिको वा प्रथमसम्यक्त्वमुत्पादयन् मनुजगतिप्रायोग्या मनुजगतिमनुजानुपूर्वीपञ्चेन्द्रियजातिसमचतुरस्रसंस्थानपथमसंहननौदारिकशरीरौदारिकाङ्गोपाङ्गपराघातोच्छ्वासप्रशस्तविहायोगतित्रसादिदशकसातवेदनीयोच्चैर्गोत्ररूपा दाविंशतिसंख्या बनाति। केवलं यदि सप्तमपृथिवीनारकः प्रथमसम्यक्त्वमुत्पादयति ततस्तिर्यग्गतितिर्यगानुपूर्वीनीचर्गोत्राणि वक्तव्यानि,
GeROHDCGER
DESCREEDS