SearchBrowseAboutContactDonate
Page Preview
Page 988
Loading...
Download File
Download File
Page Text
________________ दिशाश |लेश्यानामन्यतमस्यां विशुद्धलेश्यायां वर्तमानो जघन्यपरिणामेन तेजोलेश्यायां, मध्यमपरिणामेन पद्मलेश्यायां, उत्कृष्टपरिणामेन च शुक्ललेश्यायामित्यर्थः । तथाऽऽयुर्वर्जानां सप्तानां कर्मणां स्थितिमन्तः सागरोपमकोटाकोटियमाणां कृत्वाऽशुभानां कर्मणामनुभागं चतुःस्थानकं सन्तं द्विस्थानकं कुर्वन् शुभानां च कर्मणां द्विस्थानकं सन्तं चतुःस्थानकं कुर्वन्, तथा धुत्रप्रकृतीर्ज्ञानावरणपञ्चकदर्शनावरणनवकमिथ्यात्वक पायषोडशकभयजुगुप्सातैजस कार्मणवर्णगन्धरसस्पर्श गुरुलधूपघातनिर्माणान्तरायपञ्चकरूपाः सप्तचत्वारिंशत्स्वस्व भवयोग्याः परावर्तमानमध्यस्थाः शुभा एवं बध्नॅस्ता अप्यायुर्वर्जा एव, अतिविशुद्धपरिगामो हि नान्यमारभत इति तद्वर्जनम् । भवप्रायोग्या इति वदता चैवं सूच्यते यदुत तिर्यङ्मनुष्यो वा प्रथमसम्यक्त्वमुत्पादयन् देवगतिप्रायोग्याः शुभाः प्रकृतीर्देवद्विकपञ्चेन्द्रियजातिवैक्रियद्विकाद्य संस्थानपराघातोच्छ्वास प्रशस्तख गतित्र सदशकसातवेद नीयोच्चैर्गोत्ररूपा एकविंशतिसंख्या बध्नाति । देवो नैरयिको वा प्रथमसम्यक्त्वमुत्पादयन् मनुजगतिप्रायोग्या मनुजद्विकपञ्चेन्द्रियजातिप्रथम संस्थानप्रथम संहननौदारिकद्विक पराघातोच्छ्वासप्र शस्तख गतित्र सदशकसात वेदनीयोच्चैर्गोत्ररूपा द्वाविंशतिसंख्या बध्नाति । केवलं यदि सप्तमपृथ्वीनारकः प्रथमसम्यक्त्वमुत्पादयति तदा तिर्यग्विकनीचैर्गोत्राणि वाच्यानि शेषं तथैवेति । तथा बध्यमानप्रकृतीनां स्थितिमन्तः सागरोपमकोटाकोटिप्रमाणामेव बध्नन्नाधिकां योगवशाच्च प्रदेशाप्रमुत्कृष्टं मध्यमं जघन्यं च बध्नन् जघन्ययोगे वर्तमानो जघन्यं, मध्यमे मध्यममुत्कृष्टे चोत्कृष्टमितिरीत्या, तथा स्थितिबन्धे परिपूर्ण सत्यन्यं स्थितिबन्धं प्राक्तनस्थितिबन्धापेक्षया पल्योपमसंख्येय भागन्यूनं कुर्वन् तस्मिन्नपि पूर्णे सत्यन्यं स्थितिबन्धं पल्योपमसंख्येयभागन्यूनं कुर्वन्, एवमन्यमन्यं स्थितिबन्धं पूर्वापेक्षया पल्योपमसंख्येय भागन्यूनं कुर्वन्, अशुभानां च प्रकृतीनां बध्यमानानामनुभागं द्विस्थानकं बध्नस्तमपि प्रतिसमयमनन्तगुणहीनं, शुभानां च चतुःस्थानकं बध्नस्तमपि प्रतिसमयमनन्त 982255 225
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy