________________
10 प्ररूपगा, सर्वविरतिलाभप्ररूपणा, अनन्नानुबन्धिविसंयोजना, दर्शनमोहनीयक्षपणा, दर्शनमोहनीयोपशमना, चारित्रमोहनीयोपशमना, ISI
देशोपशमना च सप्रभेदेति । तत्रेदमुपशमनाकरणं सर्वात्मना व्याख्यातुमशक्यमिति यदंशे स्वस्य व्याख्यानाशक्तिस्तदंशे तज्ज्ञातृणां । बहुमानमाविर्भावयितुमाचार्यो नमस्कारं चिकीर्षुराह-इह द्विविधोपशमना-करणकृताऽकरणकृता च । तत्र करणं यथाप्रवृत्तापूर्वा-1 निवृत्ति करगसाध्यः क्रियाविशेषस्तेन कृता करणकृता, तद्विपरीताऽकरणकृता या यथाप्रवृत्तादिकरणं विनापि वेदनानुभवादिकारणैः संसारिणां गिरिनदीपाषाणवृत्तताप्रख्योपजायते । इदं च करणकृताकरणकृतत्वरूपं द्वविध्यं देशोपशमनाया एव, न सोंपशमनायास्तस्याः करणेभ्य एव भावात् । उक्तं च पञ्चसंग्रहमूलटीकायां-"देशोपशमना करणकृता करणरहिता च, सर्वोपशमना तु 2 करणकृतवेति" । अस्याश्च द्वितीयाया अकरणकृतोपशमनाया अकरणोपशमनानुदीर्णोपशमनालक्षणनामधेयद्वयभाजः सम्प्रत्यनुयोगो व्यवछिन्नस्ततस्तज्ज्ञातन विशिष्टप्रतिभाकलिताँश्चतुर्दशपूर्वविदोऽनुयोगधरान् प्रणिपतामि, तस्मादिह करणकृतोपशमनयाऽधिकार इति सिद्धम्। सव्वस्स य देसस्स य करणुवसमणा दुसन्नि एकिका । सव्वस्स गुणपसत्था देसस्स वि तासि विवरीया ॥२॥
(चू०)-सा करणोपसामणा दुविहा-सव्वकरणोपसामणा देसकरणोपसामणा य । 'दुसन्नि इकिक'त्ति-एक |क्का दो दो णामा । 'सव्वस्स गुणपसत्य'त्ति-सव्वोपसमणाते गुणोपसमणा पसत्योपसमणा य दो णामा । 'देसस्स य तासि विपरीयत्ति-देसोपसमणादे तासिं विवरीया दो नामा-अगुणोपसमणा अपसत्थोपसमणाय ॥
(मलय०)-सापि च द्विधा । द्वैविध्य मेवाह-'सव्वस्स'त्ति ! सा करणकृतोपशमना द्विविधा-सर्वस्य विषये देशस्य च, सर्वविषया देशविषया चेत्यर्थः । एकैकस्या अपि द्वे द्वे नामधेये । तद्यथा-'सर्वस्य सर्वोपशमनाया गुणोपशमना प्रशस्तोपशमना चेति,
GETICLECase