________________
कर्मप्रकृतिः
॥१॥
sas y M
करणुपसमणाते अहिगारोत्थ ॥ १ ॥
( मलय ० ) - तदेवमभिहिता सप्रपञ्चमुदीरणा । सम्प्रति उपशमनाप्रतिपादनावसरः । तत्र चैतेऽधिकाराः, तद्यथा - प्रथमसम्यक्त्वोत्पादप्ररूपणा, देशविरत लाभप्ररूपणा, सर्वविरतिलाभप्ररूपणा, अनन्तानुबन्धिविसंयोजना, दर्शनमोहनीयक्षपणा, दर्शनमोहनीयोपशमना, चारित्र मोहनीयोपशमना, देशोपशमना पुनः सप्रभेदेति । तत्रेदमुपशमनाकरणं सप्रभेदं सर्वात्मना व्याख्यातुमशक्यम् । ततो यत्रांशे व्याख्यातुमात्मनोऽशक्तिस्तत्रांशे तद्वेदितॄणामाचार्यो नमस्कारं चिकीर्षुराह - 'करणकय'त्ति । इह द्विविधा उपशमना करणकृताsकरणकृता च । तत्र करणं क्रिया यथाप्रवृत्तापूर्वानिवृत्तिकरणसाध्यः क्रियाविशेषः तेन कृता करणकृता । तद्विपरीताऽकरणकृता । या संसारिणां जीवानां गिरिनदीपाषाणवृत्ततादिसंभववद्यथाप्रवृत्तादि करण क्रियाविशेषमन्तरेणापि वेदनानुभवनादिभिः कारणैरुपशमनो| पजायते साकरणकृतेत्यर्थः । इदं च करणकृताकरणकृतत्वरूपं द्वैविध्यं देशोपशमनाया एव द्रष्टव्यम्, न सर्वोपशमनायाः, तस्याः करणेभ्य एव भावात् । उक्तं च पञ्चसंग्रहमूलटीकायां- "देशोपशमना करणकृता करणरहिता च. सर्वोपशमना तु करणकृतैवेति” । अस्याश्चाकरणकृतोपशमनाया नामधेयं द्वयं तद्यथा-अकरणोपशमना, अनुदीर्णोपशमना च । तस्याश्च सम्प्रत्यनुयोगो व्यवछिन्नः, तत आचार्यः स्वयं तस्या अनुयोगमजानानस्तद्वेदितॄणां विशिष्टमतिप्रभाकलितचतुर्दश पूर्ववेदिनां नमस्कारमाह- 'बिइयाए' इत्यादि, द्वितीयाया अकरणकृताया उपशमनाया अकरणानुदीर्णरूपनामधेयद्वय युक्ताया अनुयोगधरान् व्याख्या कुशलान् प्रणिपतामि, तेषु प्रणिपातं करोमि । तस्मादिह करणकृतोपशमनयाऽधिकारः || १ ||
(उ० ) —तदेवमुक्ता सप्रपञ्चमुदीरणाऽथोपशमनाभिधानावसरः । तत्र चैतेऽर्थाधिकाराः- प्रथमसम्यक्त्वोत्पादप्ररूपणा, देशविरतिलाभ
www
उपशमनाकरणम
112 11