SearchBrowseAboutContactDonate
Page Preview
Page 942
Loading...
Download File
Download File
Page Text
________________ | न्तानुबन्धिचतुष्टयाप्रत्याख्यानप्रत्याख्यानावरणरूपाणां प्रकृतीनां जघन्यानुभागोदीरगा । अयमिह सम्प्रदायः योऽनन्तरसमये सम्यक्त्वं संयमसहितं ग्रहीष्यति तस्य मिध्यादृष्टेर्मिथ्यात्वानन्तानुबन्धिनां जघन्यानुभागोंदीरणा । तथा योऽविरतसम्यग्दृष्टिरनन्तरसमये संयमं प्रतिपत्स्यते तस्याप्रत्याख्यान कषायाणां जघन्यानुभागोदीरणा । यच देशविरतोऽनन्तरसमये संयमं ग्रहीष्यति तस्य प्रत्याख्या| नावरणकषायाणां जघन्यानुभागोदीरणा । मिथ्यादृष्टयपेक्षया हि अविरतसम्यग्दृष्टिरनन्तगुणविशुद्धस्ततोऽपि देशविरतोऽनन्तगुणविशुद्ध इत्युक्तक्रमेणैव जघन्यानुभागोदीरणासंभवः । तथा 'सम्मत्तमेव मीसे' इति यः सम्यग्मिथ्यादृष्टिरनन्तरसमये सम्यक्त्वं प्रतिपत्स्यते, | तस्य सम्यग्मिथ्यात्वस्य जघन्यानुभागोदीरणा । सम्यमिध्यादृष्टिर्युगपत् सम्यक्त्वं संयमं च न प्रतिपद्यते तथाविशुद्धेरभावात्, किंतु | केवलं सम्यक्त्वमेवेति कृत्वा तदेव केवलमुक्तम् । तथा चतुर्णामायुषामात्मीयात्मीयजघन्यस्थितौ वर्तमानो जघन्यमनुभागमुदीरयति । तत्र त्रयाणामायुषां संक्लेशादेव जघन्यस्थितिबन्धो भवतीति कृत्वा जघन्यानुभागोऽपि तत्रैव लभ्यते । तथा नरकायुषो विशुद्धिवशा| जघन्यः स्थितिबन्धः ततो जघन्यानुभागोऽपि नरकायुस्तत्रैव लभ्यते । तथा च सति त्रयाणामायुषामतिसंक्लिष्टो जघन्यानुभागोदी| रकः, नरकायुषस्त्वतिविशुद्ध इति ॥ ७२ ॥ (उ० ) – से - अनन्तरे काले - द्वितीयसमये यः सम्यक्त्वं ससंयमं ग्रहीष्यति तस्य त्रयोदशानां मिथ्यात्वानन्तानुबन्ध्यप्रत्याख्यान| प्रत्याख्यानावरणरूपाणां प्रकृतीनां जघन्यानुभागोदीरणा भवति । अत्रायं सम्प्रदायः - योऽनन्तरसमये सम्यक्त्वसंयमौ युगपत्प्रतिपद्यते तस्य मिथ्यादृष्टेर्मिथ्यात्वानन्तानुबन्धिनां जघन्यानुभागोदीरणा, अविरतसम्यग्दृष्टिश्च सन् यः संयमं प्रतिपत्स्यते तस्याप्रत्याख्यानकपायाणां, देशविरतश्च सन् यः संयमं प्रतिपत्स्यते तस्य प्रत्याख्यानावरणकषायाणामिति । मिथ्यादृष्टयपेक्षया ह्यविरतसम्यग्दृष्टिर 2125
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy