________________
ZEST SCAD
| रणा खवणाए अन्भुट्टियस्स खीणकसायस्स समयाहियावलियासेसे वट्टमाणस्स । 'विपुलपरमोहिगाणं मण - | णाणोहीदुगस्सावित्ति- विपुलमणपजवणाणिस्स मणपज्जवणाणावरणस्स तस्सेव खीणकसायस्स । ओहिणाणावरणाणं ओहिदंसणावरणाणं वि परमोहिस्स खीणकसायस्स समयाहियावलियसेसे वहमाणस्स । किं कारणं ? भण्णइ-तं तं गाणं उप्पाएमाणस्स अणुभागो विजइत्ति काउं पच्छा सेटिं पडिवण्णस्स जहण्णा अणुभाग| उदीरणा ॥६९॥
(मलय०)—तदेवमुक्तमुत्कृष्टानुभागोदीरणास्वामित्वम् । सम्प्रति जघन्यानुभागोदीरणाखामित्वं प्रतिपादयन्नाह - 'सुय केवलिणो' त्ति। मतिश्रुतज्ञानावरणचक्षुरचक्षुर्दर्शनावरणानां श्रुतकेवलिनश्चतुर्दशपूर्वधरस्य क्षीणकषायस्य समयाधिकावलिकाशेषायां स्थितौ वर्तमा नस्य ' मन्दा' जघन्यानुभागोदीरणा वर्तते । तथा क्षीणकषायस्य विपुलमतिमनःपर्यायज्ञानस्य समयाधिकावलिकाशेपायां स्थितौ वर्तमानस्य मनःपर्यायज्ञानावरणस्य जघन्यानुभागोदीरणा । परमावधियुक्तस्य क्षीणकषायस्य समयाधिकावलिकाशेषायां स्थितौ वर्तमान| स्यावधिज्ञानावरणावधिदर्शनावरणयोर्जघन्यानुभा गोदीरणा || ६९॥
(उ०)—तदेवमुक्तमुत्कृष्टोदीरणास्वामित्वम्, अथ जघन्योदीरण स्वामित्वं प्रतिपादयन्नाह – मतिश्रुतज्ञानावरणचक्षुरचक्षुर्दर्शनावरणानां श्रुतकेवलिनश्चतुर्दशपूर्विणः क्षीणकषायस्य समयाधिकावलिकाशेषायां स्थितौ वर्तमानस्य मन्दा- जघन्यानुभागोदीरणा भवति । तथा | क्षीणकषायस्य विपुलमतिमनःपर्यायज्ञानभृतः समयाधिकावलिकाशेषायां स्थितौ वर्तमानस्य मनःपर्यायज्ञानावरणस्य जघन्यानुभागोदीरणा । तथा परमावधियुक्तस्य क्षीणकषायस्य समयाधिकावलिकाशेषायां स्थितौ वर्तमानस्यावधिज्ञानावधिदर्शनावरणयोर्जघन्यानु