SearchBrowseAboutContactDonate
Page Preview
Page 937
Loading...
Download File
Download File
Page Text
________________ कर्म प्रकृतिः ॥८५॥ रुवर्जशेषकुवर्णादिसप्तका स्थिराशुभरूपाणामेकत्रिंशत्प्रकृतीनां चतसृष्वपि गतिषु मिथ्यादृष्टेः सर्वपर्याप्तिपर्याप्तस्योत्कृष्टे संक्लेशे वर्तमान| स्योत्कृष्टानुभागोदीरणा भवति । तथाऽवधिज्ञानावरणावधिदर्शनावरणयोस्तस्यैव चतुर्गतिकस्य मिथ्यादृष्टेः 'अनवधिलब्धिकस्य' - अवधिलब्धिरहितस्योत्कृष्टानु भागोदीरणा भवति । अवधिलब्धियुक्तस्य हि प्रभूतोऽनुभागः क्षयं याति तत उत्कृष्टो न लभ्यत इत्यनवधिल |ब्धिकस्येत्युक्तम् ||६८|| (उ०) — योगिनः - सयोगिकेवलिनोऽन्ते सर्वापवर्तनरूपे वर्तमानस्य शेषाणां भणितोद्धरितानां शुभप्रकृतीनां तैजससप्तकमृदुलघुव|र्जशुभवर्णाद्येकादशकागुरुलघुस्थिर शुभ सुभगादेय यशः कीर्तिनिर्माणोच्चैर्गोत्र तीर्थकर प्रकृतीनां पञ्चविंशतिसंख्यानामुत्कृष्टानुभागोदीरणा भवति । इतरासां चाशुभप्रकृतीनां मतिश्रुतमनः पर्याय केवलज्ञान केवलदर्शनावरणमिथ्यात्वषोडशकषाय कर्कशगुरुवर्जशेष कुवर्णादिसतकास्थिराशुभरूपाणामेकत्रिंशत्प्रकृतीनां चतसृष्वपि गतिषु मिथ्यादृष्टेः सर्वपर्याप्तिपर्याप्तस्योत्कटसंक्लेशयत उत्कृष्टानुभागोदीरणा भवति । तथाऽवधिज्ञानावरणावधिदर्शनावरणयोरनवधिलब्धिकस्यावधिलब्धिरहितस्योत्कृष्टानुभागोदीरणा भवति तस्यैव चतुर्गतिकस्य मिथ्यादृष्टेः, अवधिलब्धियुक्तस्य हि प्रभूतोऽवधिज्ञानदर्शनावरणानुभागः क्षीयत इत्युत्कृष्टो न लभ्यते, ततोऽनवधिलब्धिकस्येत्युक्तम् ||६८ ॥ उक्कोसाणुभागउदीरणा भणिया, इयाणिं जहण्णाणुभागउदीरणा भण्णइ सुयकेवलिणो मइसुयचक्खुअचक्खुणुदीरणा मंदा । विपुलपरमोहिगाणं मणणाणो हिदुगस्सावि ॥६९॥ (चू० ) - सुय केवलि - चउद्दसपुच्वी सच्युकोसपज्जवेहिं तस्स मइसुयचवखुअचवखुणं उदीरणा मंदति काउं तेण आभिणियोहियणाणावरण सुयणाणावरणचक्खुदंसणावरणाणं अचक्खुदंसणावरणाणं जहण्णाणुभागुदी अनुभागोदीरणा ॥८५॥
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy