SearchBrowseAboutContactDonate
Page Preview
Page 928
Loading...
Download File
Download File
Page Text
________________ 5a5 (मलय०) --'निदाइ'ति । मध्यमपरिणामस्य तत्यायोग्यसंक्लेशयुक्तस्य सर्वाभिः पर्याप्तिभिः पर्याप्तस्य निद्रापञ्चकस्योत्कृष्टानु| भागोदीरणा, अत्यन्तविशुद्धस्यात्यन्तसंक्लिष्टस्य वा निद्रापञ्चकस्योदय एव न भवतीति कृत्वा मध्यमपरिणामग्रहणम् । तथाऽपुमादीनांनपुंसक वेदादीनां नपुंसक वेदारतिशोकभयजुगुप्सानामयातस्य चोत्कृष्टानुभागोदीरणास्वामी नैरयिको ज्येष्ठस्थितिकः - उत्कृष्टस्थितिकः समाप्तः सर्वाभिः पर्याप्तिभिः पर्याप्तः सर्वसंक्लिष्टो वेदितव्यः ||५९|| ( उ० ) – मध्यमपरिणामस्य तत्प्रायोग्य संक्लेशवतः सर्वपर्याप्तिपर्याप्तस्य निद्रापञ्चकस्योत्कृष्टानुभागोदीरणा, अतिविशुद्धस्यातिसं| क्लिष्टस्य वा निद्रापञ्चकस्योदय एव न भवतीति कृत्वा मध्यमपरिणामग्रहणम् । तथाऽपुमादीनां नपुंसक वेदादीनां नपुंसकवेदारतिशोकभयजुगुप्सानाम सातस्य चोत्कृष्टानुभागोदीरणास्वामी नैरयिको ज्येष्ठस्थितिकः- उत्कृष्टायुष्कः समाप्तः - सर्वपर्याप्तिपर्याप्तः सर्वसंक्किष्टो ज्ञातव्यः ॥५९॥ पंचिंदियतस बायर पज्जत्तगसायसुरसरगईणं । वेउव्वुस्सासाणं देवो जेट्ठट्टिइसमत्तो ॥ ६०॥ (चू० ) - पंचिंदियजातित सबादरपजत्तगसाय सुस्सर देवगतिवेउच्चियसत्तगउस्सा सणामाणं देवो तेत्तीससा - | गरोवमठितिगो सव्वाहिं पज्जत्तीहिं पज्जत्तो सव्वविसुद्धो एतेसिं पण्णरसण्हं कम्माणं उक्कोसाणुभाग उदीरगो । ( मलय ० ) - 'पंचिदियति । देवो ज्येष्ठस्थितिकः- उत्कृष्टस्थितिकत्रयस्त्रिंशत्सागरोपमस्थितिकः समाप्तः - सर्वाभिः पर्याप्तिभिः पर्याप्तः सर्वविशुद्धः पञ्चेन्द्रियजातित्र सबादरपर्याप्त सातवे दनी यसुस्वर देवगतिवैक्रि यसप्तकोच्छ्वासरूपाणां पञ्चदशप्रकृतीनामुत्कृष्टानुभागोदीरणास्वामी ||६||
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy