________________
1
DOORSEECDROMGORG
ऽनुभागोदीरणा चतुर्विधा, तद्यथा-सादिरनादिर्धवाऽधुवा च । तथाहि-अनयोरुत्कृष्टानुभागोदीरगा आहारकशरीरस्थस्य संयतस्य | भवति । सा च सादिरधुवा च । ततोऽन्या सर्वाप्यनुत्कृष्टा । सापि चाहारकशरीरमुपसंहरतः सादिः, तत्स्थानमप्राप्तस्य पुनरनादिः । | ध्रुवाधुवे पूर्ववत् । तथा त्रयाणां मिथ्यात्वगुरुकर्कशानामजघन्यानुभागोदीरणा चतुर्विधा । तद्यथा-मादिरनादिधुवावा च । तत्र | सम्यक्त्वं संयमं च युगपत्प्रतिपत्तुकामस्य जन्तोमिथ्यात्वस्य जघन्यानुभागोदीरगा । सा च सादिरध्रुवा च । ततोऽन्या सर्वाप्यज-2 घन्या । सा च सम्यक्त्वात्प्रतिपततः सादिः, तत्स्थानमप्राप्तस्य पुनरनादिः, ध्रुवाध्रुवे पूर्ववत् । कर्कशगुरुस्पर्श योजघन्यानुभागोदीरणा केवलिसमुद्घातान्निवर्तमानस्य षष्ठसमये भवति । सा च सादिरधुवा च, समयमात्रत्वात् । ततोऽन्या सर्वाप्यजघन्या । सापि केवलिसमुद्घातानिवर्तमानस्य सप्तमसमये भवन्ती सादिः ध्रुवाधुवे पूर्ववत् । तथा तैजससप्तकमृदुलघुवजशुभवर्गाद्येकादशकागुरुलघुस्थिरशुभनिर्माणनाम्नां विंशतिप्रकृतीनामनुत्कृष्टानुभागोदीरणा त्रिधा । तद्यथा-अनादिर्धवाऽध्रुवा च । तथाहि-एतासामुत्कृष्टानु| भागोदीरणा सयोगिकेवलिचरमसमये । ततोऽन्या सर्वाप्यनुत्कृष्टा । सा चानादिः, ध्रुवोदीरणत्वात् । ध्रुवाध्रुवे पूर्ववत् । तथा पञ्चवि
धज्ञानावरणचक्षुरचक्षुखधिकेवलदर्शनावरणकृष्णनीलदुरभिगन्धतिक्तकटुरूक्षशीतास्थिराशुभपञ्चविधान्तरायरूपाणां त्रयोविंशतिप्रकृती| नामजघन्यानुभागोदीरणा त्रिधा । तद्यथा-अनादिधुवाऽधुवा च । तथाहि-एतासां वस्त्रोदीरगापर्यवसाने जघन्यानुभागोदीरणा। सा च सादिरध्रुवा च । ततोऽन्या सर्वाप्यजघन्या। सा चानादिः, ध्रुवोदीरणत्वात् । धुवाध्रुवे पूर्ववत् । 'एयासि'इत्यादि । एतासां पूर्वोक्तानां प्रकृतीनां शेषविकल्पा-उक्तव्यतिरिक्ता विकल्पाः मृदुलघुविंशतीनां जघन्याजघन्योत्कृष्टाः, मिथ्यात्वगुरुकर्कशत्रयोविंशतीनां चोत्कृष्टानुत्कृष्टजघन्याः सादयोऽध्रुवाश्च भवन्ति । तथाहि-मृदुलघुविंशतीनां जघन्याऽजघन्या चानुभागोदीरणा मिथ्यादृष्टौ पर्यापण लभ्यते ।