________________
SIRSSTOREADESONSIST
तदुक्तं-"महणपरिणामपदणस्य नं नि" । नत्परिणामालम्बनग्रहणमाधनमित्यन्वयन परिणामादिहतुता प्रतिपादिता । तेन मनोवाकायावष्टम्भतो जायमानेन योगसंजेन वीर्यण लब्धं नामत्रिकम् । मनपा करणभूतेन योगो मनोयोगः, वाचा योगो वाग्योगः, कायेन योगश्च काययोग इत्यन्वयान्तरेण संज्ञाभेदः प्रतिपादित इति तु प्राचीनव्याख्यानम् । ननु सर्वेषु जीवप्रदेशेषु क्षायोपशमिक्यादिलधितौल्ये किमिनि क्वचितम्तोकं क्वचित्स्नोकतरमित्येवं वैषम्येण वीर्यमुपलभ्यत इत्यत आह-'कार्य'त्यादि । यदर्थ चेटते तत्कार्य तस्याम्याम आसन्नता, तथा जीवप्रदेशानामन्योऽन्यं परस्परं प्रवेशः श्रृङ्खलावषवानामिव सम्बन्धविशेषस्ताभ्यां कृत्वा विषमीकृताः प्रभूतापाल्पतरस्वभाजनतया विसंस्थुलाकृताः प्रदेशा जीवप्रदेशा येन तत्तथा । तथाहि-येपामात्मप्रदेशानां हस्तादिगतानामुत्पाट्यमानघटादिकायनकट यं तेषां प्रभृततरा चेष्टा, दरस्थानामसादिगतानां स्वल्पा, दूरतरस्थानां तु पादादिगतानां स्वल्पतरेत्यनुभवसिद्धमेतत् । यथाहि लोष्टाधभिघाते सति सर्वप्रदेशेषु युगपद्वेदनोदयेऽपि येषामात्मप्रदेशानामभिघातकलोष्टादिद्रव्यनैकटयं तेषां तीव्रतरा वेदना शेषाणां तु मन्दा मन्दतरा, तथेहापि कार्यद्रव्याभ्यासानभ्यासविशेषादात्मप्रदेशेषु वीर्यवैपम्यं भावनीयम् । एतच्च जीवप्रदेशानां मिथः सम्बन्धविशेष सति भवति, नान्यथा, यथा श्रृङ्खलावयवानां, ते हि मिथः सम्बन्धविशेषादेकस्मिअवयवे परिस्पन्दमानेऽपरेऽपि परिस्पन्दन्ते, केवलं केचित् स्तोकमपरे स्तोकतरमिति | सम्बन्धविशेषाभावे त्वेकस्मिश्चलति नापरस्य चलनावश्यंभावो यथा गोपुरुषयो. रिति सूक्तमुक्तं 'कार्याभ्यासान्योऽन्यप्रवेशविषमीकृतप्रदेश'मिति । ननु यत्प्रदेशावच्छेदेन लोप्टायभिघातस्तत्प्रदेशापच्छेदेन वेदनोत्कर्ष | A इति संभवति, तस्य तद्धेतुलात्, यत्प्रदेशावच्छेदेन घटाधुत्पाटनक्रिया तत्प्रदेशावच्छेदेन तद्वीर्योत्कर्ष इति तु न संभवति, तस्यास्तदहेतुत्वात्, प्रत्युत घटोत्पाटनेच्छाजनितघटोत्पाटनप्रवृत्त्यात्मकवीर्येणैव घटोत्पाटनक्रियोत्पत्तेरिति कार्यद्रव्यनकट्यावीर्योत्कर्ष इत्ययुक्त