SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ बन्धन करणे वीर्यप्र० कर्मप्रकृतिः प्रयोगः, कार्याभ्याशः-कार्यस्यासन्नता निकटीभवनमित्यर्थः, तथा जीवप्रदेशामा 'अन्योऽन्य'-परस्परं 'प्रवेश:'-शृङ्खलावयवानामिव ॥२२॥ परस्परं संबन्धविशेषः, ताभ्यां कृत्वा 'विषमीकृताः'--प्रभूताल्पाल्पतरसद्भावतो विसंस्थलीकृताः 'प्रदेशा' जीवप्रदेशा येन जीववीर्येण तत्कार्याम्याशान्योन्यप्रवेशविषमीकृतप्रदेशम् । तथाहि-येषामात्मप्रदेशानां हस्तादिगतानामुत्पाव्यमानघटादिलक्षणकार्यनकटयं तेषां प्रभूततरा चेष्टा, दूरस्थानामसादिगतानां स्वल्पा, दरतरस्थानां तु पादादिगतानां स्वल्पतरा, अनुभवसिद्धं चैतत् । अपि च लोष्टादिनाभिघाते सति यद्यपि सर्वप्रदेशेषु युगपद्वेदनोपजायते तथापि येषामात्मप्रदेशानामभिघातकलोष्टादिद्रव्यनैकटथं तेषां तीव्रतरा वेदना, | शेषाणां तु मन्दा मन्दतरा,तथेहापि जीवप्रदेशेषु परिस्पन्दात्मकं वीर्यमुपजायमानं कार्यद्रव्याभ्याशवशतः केषुचित्मभूतमन्येषु मन्द मपरेषु तु मन्दतमं भवति । एतच्चैवं जीवप्रदेशानां परस्परं संबन्धविशेषे सति भवति, नान्यथा, यथा श्रृङ्खलावयवानाम् । तथाहि(श तेषां श्रृङ्खलावयवानां परस्परं संबन्धविशेषे सति एकस्मिन्नवयवे परिस्पन्दमानेऽपरेऽप्यवयवाः परिस्पन्दन्ते, केवल केचित् स्तोकमपरे स्तोकतरमिति. संबन्धविशेषाभावे त्वेकस्मिन चलति नापरस्यावश्यंभावि चलनम. यथा गोपरुषयोः, तस्मात्कायेद्रव्याभ्याशवशती जीवप्रदेशानां परस्परं संबन्धविशेषतश्च वीर्य जीवप्रदेशेषु केचित्प्रभतमन्येषु स्तोकतरमित्येवं वैषम्येणोपजायमानं न विरुध्यत इति ॥४॥ (उ०) तदीय परिणामालम्बनग्रहणसाधनं तेन हेतुना लब्धं नामत्रिकमन्वर्थ येन तत्तथा सिद्धम् । तथाहि-तेन योगसंज्ञ| केन वीर्यविशेषेणौदारिकादिशरीरप्रायोग्यान पुद्दालान जीवः प्रथमतो ग्रहाति, गृहीत्वा चौदारिकादिरूपतया परिणमयति । तथा प्राणापानभाषामनोयोग्यान् पुद्गलान् जीवः प्रथमतो गृहाति गृहीत्वा च प्राणापानादिरूपतया परिणमयति, ततो मन्दशक्तिः परिभ्रमणाय यष्टिमिव तनिसर्गहेतुसामर्थ्य विशेषसिद्धये तानेव प्रगलानवलम्बते, ततो ग्रहणपरिणामालम्बनसाधनं तद्ग्रहणादिसंज्ञमिप्यते । గురువారం
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy